अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 367, कुल 2600 में से
संदर्भ में पढ़ें२७८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० ११ इत्यादिवाक्यैः । एतदेवाह । गुहायां हृदयाकाशे यदाविर्भूतं परमं व्योमा- क्षरात्मकं व्यापिवैकुण्ठं, तस्य पुरुषोत्तमगृहरूपत्वात् तत्र निहितं स्थापितमिव वर्तमानं यो वेद स भक्तो ब्रह्मणा नित्याविकृतरूपेण विपश्चिता, विविधं पश्य- श्चित्त्वं हि विपश्चित्त्वम् । पृषोदरादित्वात् पश्यच्छब्दावयवस्य यच्छब्दस्य लोपं कृत्वा व्युत्पादितो विपश्चिच्छब्दः । तेन विविधभोगचतुरेण सह सर्वान् कामानश्नुत इत्यर्थः । एतेन परप्राप्तिपदार्थ उक्तो भवति । शुद्धपुष्टिमार्गीयत्वादस्य भक्तस्य स्वातन्त्र्यं भोग उच्यते । सहभावोक्त्या ब्रह्मणो गौणत्वम् । अत एव भक्ताधीनत्वं भगवतः स्मृतिष्वप्युच्यते । 'अहं भक्तपराधीनः', 'वशे कुर्वन्ति मां भक्त्या' इत्यादिवाक्यैः । यद्यप्यश भोजन इति धातोरश्नातीत्येव रूपं भवति, अशूङ् व्याप्ताविति धातोर्भवत्यश्नुत इति रूपं, विकरणभेदात् पदभेदाच्च । तथाप्यत्राश भोजन इति धातोरेव प्रयोग इति ज्ञायते । तथाहि । अत्राशनक्रियायां ब्रह्मणा सहभाव उच्यते । तथाच व्याप्त्यर्थकत्वे ब्रह्मणा सहभूतान् कामान् व्याप्नोतीत्यर्थो भवत्य- थवा ब्रह्मणा सह भूतः स जीवः कामान् व्याप्नोतीति । एतौ त्वनुपपन्नौ । न हि कामवज्जीवकर्तृकव्यापनक्रियाकर्मत्वं ब्रह्मणि संभवत्यतिमहत्त्वात् । भाष्यप्रकाशः । फलनान्तरीयत्वादुत्तरार्धं सर्वमेव व्याकुर्वन्ति एतदेवाहीत्यादिना । एतेनेति श्रुत्युत्तरार्धेन । एतमर्थं स्मृत्योपष्टम्भन्ति अत एवेत्यादि । नचास्य नवमस्कन्धीयवचनस्य सात्त्विकांशभूत- विष्णुवाक्यत्वेन पुरुषोत्तमवाक्यत्वाभावान्नोक्तार्थोपष्टम्भकत्वमिति शङ्क्यम् । तस्य भिन्नत्वेऽपि मूलपुरुषरूपनामलीलासाम्येनादोषात् । पराशरपुराणे— 'वैष्णवानि पुराणानि समस्तानि महामुने । त्रिमूर्तीनां हरेर्नाम्ना मूर्त्या तस्य परं पदं प्रवदन्ति' ॥ इति साम्यस्मरणादिति । उक्तेऽर्थेऽनुपपत्तिमुद्भाव्य परिहरन्ति यद्यपीत्यादि । व्युत्पाद- यन्ति तथाहीत्यादि । विपक्षोद्भावितयोरर्थयोराद्यं दूषयन्ति न हीत्यादि । कामवदिति सप्तम्यर्थे वतिः । अतिमहत्त्वादिति, रश्मिः । दहराधिकरणे स्फुटमुपपादितः । स्थापितमिवेति इवपदेनाक्षराधिकरणभाष्यविरोधः परिहृतः । दर्शनमात्रे परं विशेषात् । परप्राप्तिपदार्थ इति । अयं फलाध्याये स्फुटतर इति ततोवधेयः । शुद्धपुष्टीति एतन्मार्गद्वयं सहकार्यन्तराधिकरणे स्पष्टम् । शुद्धत्वं निवेदितात्मत्वं 'निवेदितात्मा विचिकीर्षितो मे' इतिवाक्यात् । ब्रह्मणो गौणत्वमिति 'सहयुक्तेऽप्रधाने' इति पाणिनिसूत्रात् । प्रकृते । त्रिमूर्तीनामित्यादि त्रिमूर्तीनां मध्ये हरेर्नाम्ना मूर्त्या च तस्य गुणावतारस्य परं पदं मुख्यं रूपं प्रवदन्तीत्यर्थः । अनुपपत्तिमिति श्नुरूपविकरणस्यात्मनेपदस्य च नानुषपत्तिरित्यर्थः । भाष्ये । कामानिति काम्यन्त इति कामा आनन्दादयस्तानित्यर्थः । भाष्ये । ब्रह्मणि संभव- तीति ब्रह्मसाहित्यवदभिन्नान्कामानिति शाब्दबोधेन व्यापनरूपफलाश्रयत्वस्य विशेषणभूते ब्रह्मण्यपि 278