भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 372, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 372

दिरूपेणाविर्भवितुं भगवानाकाशादिरूपेणाविर्भूतोऽत एव भवन आकाश- स्यैव कर्तृत्वमुच्यते । अग्रेऽन्नमयादीनि चत्वारि रूपाणि पूर्वं निरूपितान्युत्त- रोत्तरमन्तरङ्गभूतानि । अन्नरसमयशरीरभूतात् प्राणमयस्तस्मान्मनोमयस्तस्माद्- विज्ञानमयः । कश्चिच्चैतानि रूपाणि विकारात्मकत्वात् प्राकृतान्येवैतेभ्योऽप्यन्त- रङ्गो विमुक्ताविद्यो जीव एवानन्दमय उच्यत इत्याह । स प्रतिवक्तव्यः । भाष्यप्रकाशः । श्रुतौ 'चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रम्' इति श्रुत्यनुसारेणात्राप्यन्नमयस्यान्नमयः प्राणमयस्य प्राणमय इत्येवमानन्दमयमात्मा मे शुद्ध्यन्तामिति तैत्तिरीयश्रुत्यन्तरे शोध्यत्वज्ञापनेन, 'आनन्दमानन्द- मयोऽवसाने' इति स्मृतौ च क्रममुक्तिप्रकरणेन कारणशरीरनिविष्टविमुक्ताविद्यजीवयोरानन्द- मयत्वकथनात् तयोरपि य आधिदैविकस्तमानन्दमयमत्र ज्ञापयितुमित्यर्थः । कर्तृत्वमुच्यत इति तेनात्र नाकाशादीनां प्राकृतत्वं, किंतु विभूतिरूपत्वमेवेत्यर्थः । अत्यन्तरङ्गत्वं विशदयन्ति अग्रे इत्यादि । अन्योऽन्तर आत्मेति सर्वत्र कथनात् तथेत्यर्थः । अत्र मायावादी मयटो विकारार्थकत्वमङ्गीकृत्य सूत्राण्यन्यथा नीत्वा आनन्दमयमपि जीवं मन्यते । तन्मतमनूद्य परिहरन्ति कश्चिदित्यादि । स प्रतिवक्तव्य इत्यादि । तत्र मयटः संदिग्धार्थ- रश्मिः । स्वरूपयोग्यताऽक्षरज्ञानरूपा तस्याः संपतिरुक्तेत्यर्थः । ततोऽविद्यानिवृत्त्या प्राकृतधर्मराहित्येन शुद्धसत्त्वसंपादनेन पुरुषोत्तमप्राप्तौ स्वरूपयोग्यता संपाद्यते । यत आधिदैविकशुद्धसत्त्वे चित्ते भक्तिर्भवति पुरुषोत्तमप्राप्तिसाधनम् । अत्र भक्तिः पुष्टिरूपेत्याहुः भगवद्रूपेणेत्यादि । आवि- र्भूतमिति काय आकाशशरीरस्य ब्रह्मणो यत्प्रसिद्धं परमं शरीरं व्योम तस्मिन्निहित इत्यर्थः । सूच्यार्थोपि नितरां हितः स्निग्धः स्नेहभक्तिविषय इति । पुरुषोत्तम एवेति 'आकाशशरीरं ब्रह्म' इति श्रुतेर्गर्भ पुरुषोत्तमस्तल्लिङ्गात् । न त्वक्षरमतोऽक्षरयोगव्यवच्छेदक एवकारः । द्वितीयेति उक्त- लिङ्गाङ्गेनेनानन्वयाय 'छन्दसि बहुलम्' इति सूत्रेण बाहुलकाद्द्वितीया । ब्रह्मण्येति पुरु- षोत्तमेन न तु सूर्येणाधिकारिणा विपश्चिन्मात्रेण 'सूर्यो विपश्चिन्मनसा पुनातु' इति श्रुतेः विप- श्चित्पदं न सूर्यव्यावर्तकं विशेषणमिति पक्षान्तरं वा । तथाच विपश्चित्पदं प्रस्थानरत्नाकरीत्या पुरुषोत्तमे यौगिकं सूर्ये रूढमिति ज्ञेयम् । प्रकृते । सृष्ट्यादीति प्रपाठकद्वय इत्यर्थः । चेति आनन्दमयाधिकरणभाष्योक्तसर्वोपि प्रपाठक आरब्ध इति भाष्यीयं स्फुटमित्युक्तसमुच्चये चकारः । भाष्ये । स्वस्मिन्निति । आत्मनि आनन्दमये । प्रकृते । स्मृताविति इयं द्वितीय- स्कन्धे द्वितीयाध्यायेति । कारणेत्यादि धर्मादिरयं शब्दः 'लघ्वक्षरं पूर्वम्' इति सूत्रेण शरी- रस्य लघ्वक्षरस्य पूर्वप्रयोगप्राप्तेः । तेन कारणं च शरीरं च कारणशरीरे इति द्वन्द्वः । तत्र निविष्टयोर्मुक्ताविद्ययोः जीवयोः मुक्तेः पूर्वमविद्यत्वं जीवस्यानन्दप्रवेशे विमुक्तत्वमिति द्विव- चनम् । आनन्दमयकोशात्मकं कारणशरीरं प्राणमयाद्यात्मकं लिङ्गम् । अन्नमयं स्थूलमिति । एवं चानन्दमयमात्मेत्यादिश्रुतौ कारणशरीरनिविष्टः आनन्दमानन्दमय इत्यत्र विमुक्ताविद्य इत्यर्थः । ज्ञापयितुमिति अधिदैवेनानन्दं ज्ञापयितुं प्रस्तुतम् । तेनेत्यादि 'तस्माद्वा एत- स्मादात्मन आकाशः संभूतः' इत्यत्र फलकर्तृप्रकृत्यादिविभूतिरूपत्वात् भगवद्रूपस्याकाशस्यैव कर्तृत्वेनेत्यर्थः । आत्मन इति पञ्चम्युक्तं समवायित्वं त्वात्मनोऽक्षुण्णमेव अभिन्ननिमित्तोपादा- नस्वरूपत्वाद्भावाधिकरणोक्तहेतुत्वात्प्रस्थानिकत्वात् । जीवं मन्यत इति मुख्यमेवात्मानन्दम-