अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 373, कुल 2600 में से
संदर्भ में पढ़ें२८४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० ११ अग्रिमप्रपाठके भृगुणा अधीहि भगवो ब्रह्मेति पृष्टो वरुणस्तदोत्तमाधि- काराभावात् स्वयं ब्रह्मस्वरूपमनुक्त्वा, तपसाऽधिकारातिशयक्रमेण स्वयमेव ज्ञास्यतीति तदेव साधनं सर्वत्रोपदिष्टवान् । 'तपसा ब्रह्म विजिज्ञासस्व' इति । ब्रह्मातिरिक्तेन साधनेन न तज्ज्ञातुं शक्यमिति ज्ञापनाय, तपो ब्रह्मेति सर्वत्रो- क्तवान् । तथाच तपसा साधनेन ब्रह्मत्वेन ज्ञातानि रूपाणि प्राकृतानीति विचारकेण न वक्तुं शक्यमिति । तर्हि पुनर्ब्रह्मविषयकप्रश्नसाधनोपदेशतत्करण- पूर्वातिरिक्तब्रह्मज्ञानानां परंपरा नोपपद्यते इति चेत् । मैवम् । भगवतो हि विभूतिरूपाण्यनन्तानि । तत्र येन रूपेण यत्कार्यं करोति तेन रूपेण समर्थोऽपि तदतिरिक्तं न करोति । तथैव तल्लीला यतः । तथाचान्नमयादिरूपैः क्षुद्राण्येव फलानि वदति । हीनाधिकारिणां तावतैवाकाङ्क्षानिवृत्तिर्भवति । एवं सति यादृशेनाधिकारेणान्नमयत्वरूपज्ञानं भवति तादृशे तस्मिन् संपन्ने तज्ज्ञानमपि तथा । एवमेवोत्तरत्रापि । तथाचा- काशादिरूपमाधिभौतिकस्वरूपमुक्त्वाऽऽध्यात्मिकं तत् पुरुषरूपं वदन्ती पक्षि- भाष्यप्रकाशः । कत्वादनिर्णायकत्वेन श्रुत्यन्तरादेव निर्णय उचित इत्याशयेनाहुः अग्रिमइत्यादि । तर्हीति तेषां ब्रह्मरूपत्वे । यत इति 'सोऽकामयत, बहु स्यां प्रजायेय', 'तस्मादेकाकी न रमते', 'स हैतावानास' इत्यादिष्वेकस्यैव बहुत्वोच्चनीचभावलीलानामुक्तत्वादित्यर्थः । तज्ज्ञानमपि तथेति तज्ज्ञानमपि तदुक्तफलदमित्यर्थः । एवं विभूतिरूपज्ञानफल- मुक्त्वाऽऽनन्दमयस्याधिदैविकत्वं बोधयितुं पूर्वोक्तं स्मारयन्ति तथाचेत्यादि । आकाशादि- रूपमाधिभौतिकं स्वरूपं तस्माद्वा इत्यारम्भात् पुरुष इत्यन्तेनोक्त्वा आध्यात्मिकमन्नमयादि- पुरुषरूपं वदन्ती श्रुतिस्तस्येदमेव शिर इत्यादिना पक्षिरूपमाहेत्यर्थः । ननु तस्येदमेवेती- दमा प्रत्यक्षविषयस्यैव शिरआदेः परामर्शात् प्रत्यक्षविषयस्यैव पक्षित्वं कल्पनयोपदिश्यते रश्मिः । विविक्षु शास्त्रं लोकबुद्धिमनुसरदन्नमयशरीरमनात्मानमत्यन्तमूढानामात्मत्वेन प्रसिद्धमनूद्य मूषानिषि- क्तद्रुतताम्रादिप्रतिमावत्ततोन्तरं ततोन्तरमित्येवं पूर्वेण समानमुत्तरमनात्मानमात्मेति ग्राहयत् प्रति- पत्तिसौकर्यापेक्षया सर्वान्तरमुख्यमानन्दमयमात्मानमुपदिशेदिति शङ्कितमिति भाष्येण मन्यत इत्यर्थः । ब्रह्मरूपत्व इति ब्रह्मरूपत्वाधिकरणे काले । भाष्ये । पुनर्ब्रह्मविषयकेत्यादि पुनर्ब्रह्म- विषयकः प्रश्नस्तद्ब्रह्म पूर्वोक्तमेव । साधनोपदेशस्तादृशवाक्यमपि । अत एव भाष्ये सर्वत्रोक्तवा- न्नित्युक्तम् । तत्करणं तपःकरणम् । तद्वाक्यं 'स तपोऽतप्यत' इति । इदमपि सर्वत्रैकमेव । पूर्वातिरिक्तब्रह्मज्ञानं च तत्प्रतिपादकानि 'अन्नं ब्रह्मेति व्यजानात्, प्राणो ब्रह्मेति व्यजानात्, मनो ब्रह्मेति व्यजानाद्विज्ञानं ब्रह्मेति व्यजानात्' इत्येवमनेकानि वाक्यानि तेषां परंपरेत्यर्थः । प्रकृते । पूर्वोक्तमिति जन्माद्यधिकरणवादादुक्तमित्यर्थः । वदन्तीति 'स वा एष पुरुषोऽन्नरस- 284