अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 374, कुल 2600 में से
संदर्भ में पढ़ेंरूपमाह । यतस्तेनैव रूपेणाधिभौतिके रूपे आध्यात्मिकस्य पुरुषस्य प्रवेशः । तदुक्तं वाजसनेयिशाखायाम् । 'पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः, पुरः स पक्षी भूत्वा पुरः पुरुष आविशत्' इति । वस्तुतस्तु पुरुष एव । परं तु पुरःसंबन्धी सन् पक्षी भूत्वा पुरः शरीराण्याविशदित्यर्थः । प्राकृतीषु विविधासु पूर्वमप्राकृतस्यैक- विधस्य प्रवेशोऽनुचितो यद्यपि तथापि स्वप्रवेशं विना न किंचिद् भावीति गतिप्रतिबन्धकमुल्लङ्घ्यालौकिक्या गत्या प्रविशामीति ज्ञापनाय पक्षिभवनम् । स हि तादृशः । अत एव द्विपदश्चतुष्पद इत्युक्तम् । आधिदैविक एक एवेति यः पूर्वस्येति सर्वत्रोक्तम् । भाष्यप्रकाशः। इति नात्राध्यात्मिकपुरुषोपदेश इत्याशङ्कायां तद्बोधनाय श्लोके हेतुमाहुः यत इत्यादि । तथा च पक्षिरूपस्यातिरिक्तत्वाङ्गीकारे पक्षादिपदेषु लक्षणाभावादायमेव पक्षो ज्यायानित्यतस्तथे- त्यर्थः । ननु तथापीदंपदे लक्षणागौरवं चाधिकमतो नेदं साधीय इत्यतः श्लोकमप- ह्वनन्ति तदुक्तमित्यादि । तथाचातिरेकस्य श्रुत्युक्तत्वात् तेनेदंपदलक्षणाया अप्यदुष्टत्वादय- मेव पक्षो ज्यायानित्यर्थः । एकविधस्येति अन्नमयेऽन्नमयरूपस्येत्येवमित्यर्थः । स हि तादृश इति पक्षी यतो गतिप्रतिबन्धकोल्लङ्घनेनेष्टदेशप्रवेशसमर्थ इत्यर्थः । प्रतिबन्धकज्ञापक- माहुः अत एवेत्यादि । तथाच पुरां विशेषणबलात् तथावसीयत इति नात्र कल्पना- लेशोऽपीत्यर्थः । नन्वेवं पक्ष