अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 375, कुल 2600 में से
संदर्भ में पढ़ें२८६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० १२ नन्वानन्दमयेऽप्येवमुक्तेर्नायमपि परमकाष्ठापन्नरूपः, किं तु पूर्वोक्तेभ्योऽ- तिशयितधर्मवान् विभूतिरूप एव । नच शिरआदीनामानन्दरूपत्वेनैवोक्तेरयं परमात्मैवेति वाच्यम् । अन्नमये यथावयवानां तद्रूपत्वं तथाऽऽनन्दमयेऽपि तेषां तद्रूपत्वादन्धथा तस्यैष एव शारीर आत्मेति न भवेत् । शरीरं हि पूर्वोक्तं तत्संबन्धी हि शारीरस्तल्लिङ्गैः प्रतीयते । तथाच परब्रह्मत्वं स्वान्यात्मवत्त्वं च सर्वश्रुतिविरुद्धम् । नन्वेवमतिरिक्तं चेद् ब्रह्म स्यात् तदानन्दमयादन्योऽन्तर आत्मा ब्रह्मेत्यपि वदेत् । नत्वेवमतोऽयं पर एवेति चेन्न । आध्यात्मिकरूपाणा- मेवात्र निरूपणात् तेषां च पञ्चरूपत्वात् तावतामेव निरूपणमतोऽसावन्य एव पर इति प्राप्ते प्रतिवदति । आनन्दमयोऽभ्यासात् । आनन्दमयशब्दवाच्यः पर एव । कुतः । अभ्यासात् । तस्यैष एव शारीर आत्मा यः पूर्वस्येत्यन्नमयादिषु सर्वत्रैवात्मत्वेनानन्दमयस्यैव कथनात् । ननु न किंचिन्मानमत्र पश्यामः । किं च । आनन्दमयस्यैव सर्वत्रात्मत्वेन कथने आनन्दमयेऽपि, तस्यैष एवेत्यादि न भवेदयमेव पूर्वस्यात्मेति वदेवतो नानन्दमयः पर इति चेत् । उच्यते । न हीश्वरादन्यः सर्वेषामेक आत्मा भवितुमर्हति । तस्यानन्दरूपत्वं तु 'एतस्यैवानन्द- स्यान्यानि भूतानि मात्रामुपजीवन्ति । रसो वै सः रसꣳह्येवायं लब्ध्वाऽऽनन्दी भवति । को ह्येवान्यात् कः प्राण्यात् यदेष आकाश आनन्दो न स्यात् । भाष्यप्रकाशः । करणावतारणायोत्तिष्ठति तमाहुः नन्वित्यादि । तथाच योग्यत्वात् प्रायपाठाच्चानन्दरूपत्वम- वयवानामुच्यते, न तु परमात्मत्वादित्यर्थः । परमात्मत्वाभावे गमकमाह अन्यथेत्यादि । पूर्वोक्तमिति आनन्दमयम् । शेषं निगदव्याख्यातम् । एवं च मयटो विकारार्थत्वा- नङ्गीकारेऽप्यन्नमयादीनामिवानन्दमयस्याप्याध्यात्मिकविभूतिरूपेणापरब्रह्मत्वं प्रायपाठबलादङ्गी- कर्तव्यं, न तु परब्रह्मत्वमिति पूर्वपक्षाशयः । अत्र सूत्रमुपन्यस्य समादधते आनन्दम- योऽभ्यासादिति । तस्येत्यादि तथाच वाक्याभ्यासाद् तथेत्यर्थः । अयं प्रकारो गुणो- पसंहारपादे, आत्मगृहीतिकार्याख्यानाधिकरणाभ्यां पुनः स्फुटीकर्तव्यः । अत्र चोदयति । नन्वित्यादि । अत्रेति उक्तवाक्येऽन्नानन्दमयग्रहणे । साधकतर्काभावमुक्त्वा बाधकतर्क- माह किंचेत्यादि । अनयोर्दूषणयोः पूर्वं निरस्यन्ति न हीत्यादि, मन्तव्यमित्यन्तम् । तथाच सर्वेभ्योऽन्तरात्मत्वमानन्दमयस्य निरूपयिष्यन्त्या यत् तस्यैष एव शारीर आत्मा यः पूर्वस्येति प्राणमयाद्यानन्दमयान्तस्य, एष एव शारीर आत्मा यः पूर्वस्यान्नमयस्येत्यन्न- मयसंबन्धिन आत्मनः सर्वसंबन्ध्यात्मत्वमम्यर्हम् । अन्नमयाभिमानी तु पूर्व नोपक्रान्तः रश्मिः । इत्यनेन वाक्येनान्नमयादिषु सर्वत्रानन्दमयस्यैवात्मत्वेनाभ्यासादित्यर्थः । भाष्ये । आनन्दमय- स्यैवेत्येवकारेण 'असन्नेव सः' इत्यादिपुच्छवाक्योक्तब्रह्माभ्यासो निराकृतः । भाष्येणैव विरोघस्य तत्राति- स्फुटत्वात् । प्रकृते । तथेति आनन्दमयत्वमित्यर्थः । स्फुटीति तेन साङ्गत्यमप्युक्तं प्राय एतस्य ज्ञेय इति ज्ञेयत्वेभिप्रायः संगतिः सूचिता । चोदयतीति वाक्याभ्यासं स्फुटविद्यासुखापेक्षयेत्यर्थः । 286