अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 377, कुल 2600 में से
संदर्भ में पढ़ेंएष ह्येवानन्दयाति' इत्यादिश्रुतिभिर्निर्णायंते । एवं सति तदेकवाक्यतया प्रकृतोऽ- प्यानन्दमयशब्दस्तद्वाच्यंवेति मन्तव्यम् । अन्यथानन्दमयादन्योऽन्तर आत्मे- त्यपि वदेत् । ननूक्तमाध्यात्मिकानामेवात्र निरूपणादित्यादीति चेन्न । उक्तरीत्याधि- दैविकस्यैवान्ते निरूपणात् । अत एव भार्गव्यां विद्यायामपि भृगोरन्नमयादिज्ञाना- नन्तरमपि पुनर्ब्रह्मजिज्ञासोक्ता, न त्वानन्दमयज्ञाने । न हि भृगोराध्यात्मिक- ज्ञानार्थं प्रवृत्तिः, किं तु ब्रह्मज्ञानार्थमेव । अधीहि भगवो ब्रह्मेति प्रश्नवचनात् । किंच, ब्रह्मविदाप्नोति परमित्युपक्रमादन्ते ज्ञेयानन्दगणनामुक्त्वा, 'स यश्चायं पुरुषे यश्चासावादित्ये स एकः' इति वाक्यैर्ब्रह्मविदि पुरुष आदित्ये च तदेवाक्षरं ब्रह्म प्रतिष्ठितमिति तदानन्दोऽपि तथैवेति तयोरानन्दयोरेक्यम् । एवं