अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 378, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । २८९ ननूपसंक्रमणं ह्यतिक्रमणमतो न तथेति चेत् । हन्तैवमतिक्रान्तशब्दार्था त्वन्मतिर्भाति । यतः संक्रमणशब्दः प्राप्त्यर्थकः सर्वत्र श्रूयते । अत एव रवेर्मकरादिराशिप्राप्तौ तत्तत्संक्रमणमित्युच्यते । नचेयं न परममुक्तिः । अस्मा- ल्लोकात् प्रेत्येति पूर्वमुक्तेः । अत एव पुरुषोत्तमानन्दानुभवे सत्यनुभवैकगम्योऽय- भाष्यप्रकाशः । यद्यपि जिज्ञासाोपरतिस्थले आनन्दमयपदाभावस्तथापि समाप्तौ 'एतमानन्दमयमात्मानमुपसंक्रम्य एतत् साम गायन्नास्ते' इति फलकथनेन द्वयोरपि प्रपाठकयोरैकार्थ्यावगमात् तस्याप्युपष्ट- म्भकत्वमव्याहतमित्यर्थः । अत्र वादी परमफलत्वाभावमाशङ्कते नन्वित्यादि । संक्रमः प्रति- संक्रम इति पुराणप्रयोगात् तथेत्यर्थः । समादधते हन्तेत्यादि । उच्यत इति 'कार्मुकं