अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 379, कुल 2600 में से
संदर्भ में पढ़ें२९० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० ११ भाष्यप्रकाशः । वरणैकहेतुकानुभवमात्रगम्योऽयमानन्दो, न मनोवाग्विषय इति ब्रह्मण आनन्दं ज्ञात्वा विद्वान् सन् कुतश्चन लोकवेदादिभ्योऽपि न बिभेतीति सर्वतो भयाभावमनेन श्लोकेनोक्तवतीति रश्मिः । व्युत्पत्तिः । पुरुषोत्तमो धर्मी स 'यद्यप्रिय' इति वाक्यानुगुणो भजनविषयः । तस्यानन्दो भज- नानन्दः तस्यानुभवो हि सर्वात्मभावरूपसाधनेन 'पुरुषार्थोतः शब्दादिति बादरायणः' इति सूत्रात् । पुरुषोत्तमस्तु अग्निशिखेव त्रिष्वग्निषु हृदि वर्तते । 'विष्णुर्नाम महायोगी महामायो महत्तपाः । तत्त्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः' ॥ इति योगतत्त्वोपनिषच्छ्रुतेः । स पुरुषोत्तमो 'यद्यप्रिया' इति वाक्यानुगुण इत्युक्तः । स्वात्मकसाधनलभ्यः । 'शुद्धस्फटिसंकाशं किंचित् सूर्यमरीचिवत् । लभते योगयुक्तात्मा पुरुषोत्तमतत्परः' ॥ इति श्रुत्युक्तं तत्साधनम् । व्यानवायुः पूर्वार्धार्थः । अमृतबिन्दूपनिषदि तथोक्तः । तदन्व- मृतबिन्दूक्तं साधनम् । तदा शून्याभावे सिद्धे ब्रह्मोपनिषदोऽशून्यभावनिश्चयः । तेन धर्मी पुरुषोत्तमः । तत्र भक्ता लक्ष्मीर्वर्तते पुरुषविधब्राह्मणात् । तया भक्त्या 'अचलत्वं चापेक्ष्य' इति सूत्रभाष्योक्तरी- त्यात्मबोधोपनिषदुक्तस्वरूपलाभे शाब्देऽन्यस्मिन् वा । लभत इति । अमृतबिन्दूपनिषदुक्तप्रत्याहार- प्रभृतिकयोगयुक्तात्मा निरोधानन्तरं मानसीसेवावान् । पुरुषोत्तमतत्पर इति । अत्र साधने पुरुषोत्तम- योगाध्यायोक्ते ऊर्ध्वमूलमधःशाखोश्वत्थः कालात्माश्वो बृहदारण्यकोक्तोऽप्सुयोनिर्नारायण इव वर्तमानः । शाखास्तु देवलोकमूलोकभुवर्लोकरूपाः । कर्मानुबन्धीनि मूलानि मनुष्यलोके तच्छेदनेन भगवद्धामा- क्षरप्राप्तिः । ज्ञानकर्मोमेदपक्षे पञ्चरात्रोक्ते । जीवांशाधिकारी । तेजोरूपं तेजोबिन्दूपनिषदि प्रोक्तम् । पञ्चाश्वत्वारोर्थाः सर्वत्र प्रतिपाद्यन्ते इति ओजः । सोमो रसात्मकः । वैश्वानरोन्नपाचकः । सर्वहृत्स्थश्च- तुर्थः । वेदान्तकृच्च क्षराक्षरपुरुषोत्तमाः सर्वभावश्च समष्टिः । सर्वात्मभावश्च । कृतकृत्यता फलम् । गुह्यतमत्वात्पुरुषोत्तमात्मकं साधनं गीतातत्रयोदशाध्याये सर्वम् । अत्र तत्पर इत्यर्थः । तथा च गोपीचन्दनो- पनिषदि श्रुतिः । ब्रह्म चिद्घनानन्दैकरूपपुरुषोत्तमरूपेण वसुदेवसद्मन्याविर्बविष्यतीति । अयं मध्यमः पक्षः । उत्तमस्तु स्वरूपा निश्चित्य तत्परः । यथात्रैव भाष्ये अग्निशिखा पुरुषविधः 'यद्यप्रिया' इति वाक्यात् 'नाहं वेदैः' इति वाक्याच्च । 'अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्' इति काठकाच्च 'त्रिषत्या ह वै देवाः' इति श्रुतेः ब्रह्मामृतात्मबोधोपनिषदः उदाहृतास्तदङ्गमन्याः । रामोत्तरतापनीयेपि 'सोमृतत्वं च गच्छति सोमृतत्वं च गच्छति सोमृतत्वं च गच्छति' इति वारत्रयमुक्तं त्रिसत्यम् । भिन्नाभिन्नयोरानन्दयोरभिन्नमानन्दमुक्त्वा भिन्नमानन्दमाहुः वरणैकहेत्यादि । वरणैकहेतुको मत्त्याख्यः प्रियत्वानुभव इत्यर्थः । अयमानन्द इति उक्तपुरुषोत्तमानन्दभिन्नो भेदघटितत्वेन भक्तिमार्गी- यानन्दः । लोक इति आदिना कालः । न कुतश्चनेत्युक्त्या लोकाद्द्रयाभावो यथा चोराद् बिभेतीत्यादिभयहेतवः । तेभ्यो विद्वानित्युक्त्या द्वितीयाभावाच्च भयम् । इहोनिवृत्त्यनिष्टप्राप्ति- ज्ञानजतापहेतुकं भयं भवति तदपि विद्वानित्युक्त्या 'एतꣳह वा व न तपति' इति त्रापाभावाच्च 290