अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 381, कुल 2600 में से
संदर्भ में पढ़ें२९२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० १ अ० ५ सू० ११ सामानाधिकरण्यमनुक्त्वा 'आनन्दं ब्रह्मणः' इत्युक्तम् । एतेन लौकिकं पूर्वदेहं त्यक्त्वा साक्षाद्भगवद्भजनोपयोगिनं भगवद्विभूत्यात्मकं संघातं प्राप्नोत्यादौ । तथाहि । देहेन्द्रियप्राणान्तःकरणजीवात्मको हि संघातः । तत्र स्थूलं शरीरमाद्य- विभूतिरूपम् । द्वितीयं स्पष्टम् । तृतीयं सर्वेन्द्रियसंबन्धित्वेनेन्द्रियरूपत्वेन चान्तः- करणात्मकत्वेन चेन्द्रियान्तःकरणरूपम् । तुरीयं जीवतत्त्वात्मकम् । यत्र गुहायां भाष्यप्रकाशः । विवरकत्वमुपपाद्य तेन सिद्धं निगमयितुमाहुः एतेनेत्यारभ्य, अवगम्यत इत्यन्तम् । आद्यविभूतिरूपमिति अन्नमयविभूतिरूपम् । मनोमयविभूतिरूपसेन्द्रियान्तःकरणरूपत्वे हेतुनाहुः तृतीयमित्यादि । अत्र मनसः सर्वेन्द्रियनियामकत्वान्मनोमयस्य सर्वेन्द्रियसंबन्धि- त्वम् । शेषं स्फुटम् । तथाच कार्यद्वारा मनसैव सर्वेन्द्रियाण्याक्षिप्यन्त इति तथेत्यर्थः । जीवस्य विद्यमानत्वाद्विज्ञानमयविभूतिर्बुद्धिरूपा मनसः पृथग् भविष्यतीत्याशङ्कावारणाय तत्स्वरूपमाहुः तुरीयमित्यादि । जीवतत्त्वात्मकमिति जीवस्य यत् तत्त्वं स्वरूपसहका- रियोग्यतासंपत्तिस्तदात्मकमित्यर्थः । अत्र गमकं यत्रेत्यादिना प्रोक्तं ज्ञेयम् । एवं रश्मिः । ब्रह्मणोः सामानाधिकरण्येनोक्तमित्यर्थः । एतेनेत्यारभ्येत्यादि । अत्र भाष्ये । संघातमिति यद्बृहदारण्यके शारीरब्राह्मणे ब्राह्ममित्युक्तं तत् । साक्षाद्भगवद्भजनेति विशेषणेन तस्य फलत्वात् । विवृण्वन्ति स्म अत्रेत्यादि । अत्र प्रकृते संघाते मनस उत ये मनो विदुरिति श्रुतेराधिदैविक- रूपमनस इत्यर्थः । 'मनसो वशे सर्वमिदं बभूव' इति वाक्यात् सर्वेन्द्रियाणि प्राणाः इन्द्रियाणि प्राणाः अन्तःकरणं स्थानं तेषां सर्वेन्द्रियपदवाच्याः । तेषां नियामकत्वादित्यर्थः । मनोमयस्येति मनःप्राचुर्यस्य विभूतित्वात् । सर्वेन्द्रियाणि पूर्वोक्तानि तत्संबन्धित्वम् । आधिदैविकत्वेन प्रेर्यप्रेरकभावः संयोगरूपः सोस्यास्तीति सर्वेन्द्रियसंबन्धि तस्य भावः सर्वेन्द्रियसंबन्धित्वम् । शेषमिति । इन्द्रिये- त्यादि भाष्यं स्पष्टम् । तथा हि आधिदैविकादिरूपेण त्रैविध्यम् । सर्वेन्द्रियसंबन्धो नेयनायकभावः । इन्द्रियरूपत्वम् । 'मनोमात्रमिदं ज्ञात्वा' इतिवाक्यात् । अन्तःकरणात्मकत्वं मनःप्राचुर्येप्येक- देशविकृतन्यायेन, एवं स्पष्टम् । कार्यद्वारेति ज्ञानरूपकार्यद्वारा । आक्षिप्यन्त इति आक्षेपोर्थापत्तिः । 'आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः' इति श्रुतेः । तथेति सर्वेन्द्रियसंबन्धि- त्वादिः । मनसेति अपृथगिति पदच्छेदः । मनोबुद्धिचित्ताहंकारा इति मनोभेदा इति । बुद्धिरूपेति इन्द्रियानुग्राहिकेत्यर्थः । बुद्धितारतम्येनेन्द्रियज्ञानक्रिययोस्तारतम्यदर्शनाद्बुद्ध्याऽनुगृहीतानीन्द्रियाणि पश्यन्ति कुर्वन्ति च । इदं च कार्यलक्षणम् । स्वरूपलक्षणं तु द्रव्यस्य घटादेः स्फुरणे शब्देनालोकेन संस्कारेण वा यद्विशिष्टं ज्ञानमिति । तृतीयस्कन्धे षड्विंशे 'तैजसात्तु विकुर्वाणाद्बुद्धितत्त्वमभूत्' इत्यस्य सुबोधिन्याम् । तल्लेखे प्रस्थानरत्नाकरे च स्फुटम् । तत्त्वपदस्याभिप्रायमाहुः मनसेति । तस्येन्द्रियप्रेरकत्वं कार्यलक्षणम् । संकल्पविकल्पात्मकत्वं स्वरूपलक्षणमिति तेन पृथक् । बुद्धेर्मनो- भेदत्वात् । स्वरूपेत्यादि ज्ञानेन्द्रियेषु विज्ञानमयप्रवेशाच्चयेति वक्ष्यमाणभाष्योक्ता । यत्रेत्यादिनेति अग्रिमग्रन्थेन भाष्ये यत्र स्वरूपयोग्यतायां सत्यां बुद्धिरूपायां यतो जीवरूपं ज्ञानं बुद्धिरूपसत्त्वं विना न भवति । बुद्धिमानयं पदार्थान् जानाति इति प्रत्ययात् । 'मनसि सर्वतो निवृत्तव्यापारे स्वयमुपलब्धनिजसुखानुभवो भवान्' इदमेव ब्रह्मज्ञानमिति द्वितीयपादे वक्ष्यन्ति । गुहायामित्यादेरर्थ- 292