अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 382, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । २९३ भगवद्वरणेन परमलव्योमाविर्भावस्ततः पूर्णानन्दात्मकं पुरुषोत्तमस्वरूपं फलरूपं प्राप्य उक्तऋग्गर्थरीत्या तेन सह सर्वकामाश्रनमेव मनोवाग्विषयानन्दवेदनं तद्वान् भवतीति वाक्यैकवाक्यतयावगम्यते । भाष्यप्रकाशः। विभूतिरूपाणि व्याख्याय तच्छेषिणं व्याकुर्वन्ति तत इत्यादि। अत्र कामाश्रनस्य वेदन- रूपत्वम् । भोगस्य सुखसाक्षात्काररूपत्वात् । वाक्यैकवाक्यतयेति उपसंक्रमेण वेदनम- यामावाभ्यां तापाभावादिभिश्चास्य फलांशविवरकत्वेन वाक्यानामैकवाक्यतया । एवमानन्दमयप्राप्तेर्यथा परममुक्तित्वं, तथा प्रकारो विषयवाक्यभूतप्रपाठकविवरणेन प्रकाशितः । तत्र पूर्वोक्तानां विभूतीनां पक्षिरूपत्वं यदुक्तं तल्लीलोपयोगिषु तेषु रश्मिः। प्राहुः गुहायामित्यादि । हृदि मनसि अयं हृदयं सप्तम्या लुक् तत्संबन्ध्याकाशे छिद्ररूपे 'छिद्रा व्योम्नीव चेतनाः' इति वाक्यात् । सुपर्णद्वययुक्तं वस्तु 'द्वौ सुपर्णा भवतः' इति गोपालतापानीयात् । मर्यादामुक्तस्यान्यत्र चरणयोर्लयात् पुष्टिमक्तस्य फलम् । सिद्धान्तमुक्तावलीटीकायां ज्ञानिभक्तौ चेद्विशेषतोनुगृह्णाति तदा पुष्टिमक्तिं प्राप्नुतः आदाविति ग्रन्थात् । पुष्टिमार्गत्वाच्च भगवद्वरणाति- रिक्तं साधनमुक्तम् । भक्तिहेतौ त्वनुग्रह उक्तः स पुराणोक्तः । 'यदा यस्यानुगृह्णाति भगवान् आत्मभावितः । स जहाति मतिं लोके वेदे च परिनिष्ठिताम्' ॥ इतिवाक्यात् । न बिभेति कुतश्चनेति परिनिष्ठितमतित्यागः । गुहायां हृदये 'स मानसीन आत्मा जनानाम्' इति श्रुतेः । परमव्योमाविर्भावोऽयोगोलके वह्निरिव वरणातिरिक्तं साधनं नेत्युक्तम् । हृदि अयमात्मा सामानाधिकरण्येन तत्संबन्धिन्याकाशे जीवदेहे मनसि परमव्योमा- विर्भावः स्पर्शमणिसंबन्धेनायसि चामीकरत्वाविर्भाववत् । परो मीयते ज्ञायते येन व्यापकेन व्योम्नेति परं व्योम । ननु जीवस्य देह आकाशात्मक्योपि मांसस्रूपः। संहितायामाकाशस्य मांसत्वोक्तेः भगव- दंशत्वात् 'तस्माद्वा एतस्मादात्मनः' इत्यादिकं भवति । आत्मनो जीवादाकाशो देहः । आकाशाद्वायुः प्राणादिः त्वक् च। वायोर्ग्निः दर्शनाग्निः जाठराग्निर्ज्ञानाग्निश्च । अग्नेरापः प्रस्वेदादिरूपाः । अद्भ्यः पृथिवी कठिनांशा अस्थ्यादि । पृथिव्या ओषधयः लोमानि केशाः । ओषधीभ्योऽन्नं लिक्षा अन्नात्पूकाः । पुरि शेरते इति पुरुषाः यथाकथंचिन्नेयाः । तत्र पुरुषोत्तमस्य दीपशिखावर्द्धमाने पूर्णानन्दे अदृश्य- त्वाधिकरणोक्ते संपन्ने 'तस्यैष आत्मा विवृणुते तनुं स्वाम्' इति श्रुत्युक्तं भवति, स्वां स्वीयां तनुं विवृणुते प्रकाशयति । प्रकृते । तच्छेषिणमिति । आनन्दमयमित्यर्थः । तापाभावेत्यादि 'एत१ह वा व न तपति' इति श्रुतेः । अस्येति प्रपाठकस्य । तया च व्याख्येयव्याख्यानभावेनैक- वाक्यता तया । अधुना प्रथमस्कन्धस्य 'अथो विहायेमममुं च लोकम्' इत्यादिश्लोकद्वयसुबोधिन्यु- क्तदिशान्न मयादिविभूतीनां साधनसंपत्तये लौकिकान्न मयादिकोशेषु तत्तदर्थं तत्प्रवेशं बोधयन्ती- त्याशयेन भाष्यमवतारयन्ति एवमानन्दमयेत्यादि । प्रकाशित इति सर्वरोत्या व्याख्याय पूर्वं पश्चात्तन्नमत्यागे मानाभावमाश्रित्याग्रथ्वेलादिना प्रकाशितः । तल्लीलेत्यादि लीलापूर्वकालिकेषु 293