अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 383, कुल 2600 में से
संदर्भ में पढ़ें१९४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० १ अ० ५ सू० ११ अथेदं विचार्यते । 'पुरश्चक्रे द्विपदः' इति श्रुतौ वस्तुतस्तु पुरुष एव । परंतु पुरःसंबन्धी सन् पक्षी भूत्वा पुर आविशदिति निरूपितम् । प्रकृते चान्न मया- दयस्तथैवोक्ताः । एवं सत्येकस्यां पुरि बहूनां तेषां प्रवेशो न वक्तुमुचितः । प्रयोजनाभावादित एकैकस्यां पुरि तथा वाच्यः । तत्र कीदृश्यां तस्यां कस्य प्रवेश इति विचार्यमाणे प्राकृतत्वब्रह्मत्वयोरविशेषाद् विनिगमकाभावात् सर्वेषां सर्वत्र प्रवेशोऽप्रवेशो वा भवेदिति चेन्न । अत्रेदं प्रतिभाति । अस्माल्लोकात् प्रत्येति वाक्ये इदंशब्दप्रयोगात् प्राकृत- भाष्यप्रकाशः ! कोशेषु पक्षिरूपेण यः प्रवेशस्तद्धेतुकमिति तद्बोधिकायाः श्रुतेरविचारे तन्न दृढं भव- तीति तद्दृढीकरणाय पक्षिरूपप्रवेशबोधकश्रुतिविचारं प्रति