अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 387, कुल 2600 में से
संदर्भ में पढ़ें२९८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० ११ न्वानन्दमयेऽपि तथैवोक्तवती श्रुतिरिति ज्ञेयम् । एवं सति स्पर्शमणिसंबन्धित्वेन रजतादेर्हेमत्वमिवोक्तप्रकारकप्रवेशादुभयाणामपि तत्तदात्मकत्वमित्युच्यते । भाष्यप्रकाशः तेनात्रायमर्थः । तस्येत्यभेदे षष्ठी । तथाच पूर्वस्य यः शारीर आत्मा उपक्रमे जग- त्कर्तृत्वेनोक्तस्तदभिन्न एष इति । एवमर्थोक्तौ गमकं तु, अग्रेऽन्यस्यान्तरात्मन उक्त्य- भाव एवेति प्रागेवोक्तम् । प्रवेशस्य योग्यतासंपादकत्वप्रकारं दृष्टान्तेनाहुः एवं सती- त्यादि । एवमत्र श्रुत्यन्तरानुसारेण वास्तवं पक्षिरूपमादृत्य प्रकृतश्रुत्यर्थो निर्णीतः । अतः परं 'परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः' इति श्रुतेः । रश्मिः। पूर्वोक्तो यद्यपि वाक्यान्वयाधिकरणे प्रियत्वस्य ब्रह्मधर्मत्वमुक्तमिति धर्मस्तथापि पूर्वोक्तश्रुत्या धर्मीपि । आनन्दवत् । भक्तिश्च भावो 'रतिर्देवादिविषया भाव इत्यभिधीयते' 'केवलेन हि भावेन गोप्यः' इत्यादिवाक्यात् । एवं च पूर्णब्रह्म भावात्मकमिति निष्कर्षः । तच्च न निराकारं 'आनन्दरूपममृतं यद्विभाति' 'आनन्दमात्रकरपादमुखोदरादिः' इति श्रुतिस्मृतिभ्यम् । प्रकृतश्रुतेश्च तत्राकारविचारे कृष्णाकारो मुख्यः । एतच्च 'समान एवं चाभेदात्' इति सूत्रे उपपादनीयम् । श्रीभागवते च स्फुटम् । न चैवं परिच्छिन्नत्वमाशङ्कनीयम् । वैश्वानराधिकरणे प्रादेशमात्रस्यैवाभिविमानत्वमिति सिद्धान्तात् । ज्योतिश्चरणाधिकरणे ज्योतीरूपत्वोक्तेर्यथा परिच्छिन्नोपि वह्निस्तूलादियोगान्महान् भवति तद्वदिति दृष्टान्तः । तदेव स्वधर्मेण सच्चिदानन्दरूपेण व्यापकमिति समन्व