भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 388, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 388

वस्तुतस्तु परोक्षवादोयमिति ज्ञायते । तथाहि । 'ब्रह्मविदाप्नोति परम्' इति वाक्येन ब्रह्मविदः परप्राप्तिं सामान्यत उक्त्वा तत्तात्पर्यं सत्यं ज्ञानमित्युक्तो- क्तम् । तत्र सर्वात्मभाववान् भक्तो भगवता सह तत्स्वरूपात्मकान् कामान् भुङ्क्त इत्युक्तव्याख्यानेन तदर्थोऽवधार्यते । उक्तभक्तस्य सदैव, विरहाभावे तु विशेषतः प्रियरूपातिरिक्तास्फूर्त्या अन्नप्राणादिरूपः स एवेति ज्ञापनाय तत्तद्रूपत्वमुच्यते । तेन परमप्रेमवत्त्वं सिद्धयति । ततो भगवदाविर्भावे सत्यपि पूर्वभावस्याति- तीव्रत्वेन ज्ञानादिसर्वतिरोधानेनाग्रिमरसानुभवो न भविष्यतीति स्वयमेव तदनुभवात्मको भवतीति ज्ञापनाय विज्ञानरूपत्वमुच्यते । तदानुभवविषयः प्रकट आनन्दमय इति तत्स्वरूपमुच्यते । तत्र निरुपधिप्रीतिरेव मुख्या, नान्यदिति ज्ञापनाय प्रियस्य प्रधानाङ्गत्व