अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 389, कुल 2600 में से
संदर्भ में पढ़ें३०० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० ११ न्दात्मक एव विविधरसभावसंदोह उत्पद्यते यः स दक्षिणः पक्ष उच्यते । ततः स्पर्शादिभिः पूर्वविलक्षणः प्रकृष्टानन्दसंदोहो यः स उत्तरः पक्ष उच्यते । नानाविधपक्षसमूहात्मकत्वात्तयोः पक्षयोर्युक्तं तथात्वम् । स्थायिभावस्यैक- रूपत्वादात्मत्वमुच्यते । यतस्तत एव विभावादिभिर्विविधभावोत्पत्तिः । भाष्यप्रकाशः । तत्रेति आनन्दमयस्वरूपकथने । प्रियस्येति प्रियस्वरूपस्य । तेन श्रुतौ प्रियमिति नपुंसकलिङ्गस्य नानुषपत्तिः । प्रधानाङ्गत्वमुच्यत इति कल्पनयोपदिश्यत इत आरभ्य कल्पनो- पदेशो बोध्यः । तत्रायं प्रकारः । आनन्दमयानुभवे निरुपधिप्रीतिरेव मुख्या । 'भक्त्याऽ- हमेकया ग्राह्यः' इति वाक्ये तस्या एवानुभवजनकत्वकथनात् । नान्यत् साधनान्तर- [L11