अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 390, कुल 2600 में से
संदर्भ में पढ़ेंपरप्राप्तिसाधनीभूतब्रह्मज्ञानदशायां तदानन्दोऽपि यः पूर्वमनुभूतः स गणिता- नन्द इत्येतदानन्दानुभवानन्तरं तुच्छत्वेन भातीष्टगतावसाधनत्वेन स्वरूपतोऽपि तस्याधीनत्वं चेति पृष्ठभागादपि दूरस्थितपुच्छरूपत्वं ब्रह्मण उच्यते । पुरुषोत्त- माधिष्ठानत्वात् प्रतिष्ठारूपत्वं च । एवं सत्यक्षरादप्युत्तमत्वेऽप्यप्रधानीभूय भाष्यप्रकाशः । भगवन्तं प्राप्नोतीति । स्थायिभावस्येत्यादिनाऽऽत्मशब्देऽपि तत्सिद्धिनिबन्धना सा । पर- प्राप्तीत्यादिना च पुच्छशब्दे पूर्वेषामानन्दानां प्रशंसानिबन्धना सा बोध्यते । प्रतिष्ठा- शब्देऽपि तथा । एवमवयवेषु परोक्षवादो बोध्यः । तथाच स्वर्णधर्मानुवाके आनन्द- रूपं परप्रकाशकं कमनीयं परमेश्वरस्य यत्स्वरूपं ब्रह्मा ज्ञातवान् । स सर्वान्तर्यामी सर्व- नियामको बहुधा विचरति यत्र सर्वमेकं भवति स आत्मा जनानां मानसीनश्च मानस- संबन्धी । मानसाश्चैते भावा आनन्दरूपा इति तज्जनकस्य यत् स्वरूपं भावरूपं कल्प- रश्मिः । ब्रह्मणः प्रकृतत्वेन प्रधानत्वेनाङ्गीकृते आनन्दमयावयवत्वेनापि ब्रह्मणि विज्ञायमाने प्रकृतत्वं न हीयते आनन्दमयस्य ब्रह्मत्वात् इति प्राप्ते समाहितं तथासति तदेव ब्रह्म आनन्दमय आत्मावयवी, तदेव ब्रह्म पुच्छं प्रतिष्ठावयवः, इत्यसामञ्जस्यं स्यादन्यतरपरिग्रहे तु युक्तं ब्रह्म पुच्छं प्रतिष्ठेत्यत्रैव ब्रह्मनिर्देशः आश्रयितुं ब्रह्मशब्दसंयोगान्नानन्दमयवाक्ये ब्रह्मशब्दसंयोगाभावादिति तदिदं दूषयितुमक्षरपुरुषोत्तम- योगौणप्रधानभावं दर्शयन्तः आनन्दस्य मुख्यतामुपपादयन्ति स्थायिभावस्येत्यादि । आनन्दरूपस्ये- त्यर्थः । 'आनन्द आत्मा'इति श्रुतेः । तत्सिद्धीति एकत्वनिबन्धना गौणीत्यर्थः । पूर्वेषामित्यादि मानुषानन्दमारभ्य प्रजापतिपर्यन्तानां पूर्वेषामानन्दानां 'ते ये शतं प्रजापतेरानन्दाः स एको ब्रह्मण आनन्दः' इति आनन्दसंबन्धिनी ब्रह्मप्रशंसा तन्निबन्धनेत्यर्थः । पुच्छमपि मयूरादेः सर्वाङ्ग आनन्दो- ऽस्यैकपुच्छानन्द इति प्रशंसन्ति पुच्छे ब्रह्मानन्द इति किमु वक्तव्यं मोदादिरूपा आनन्दाः कीदृशा आनन्दाः मनोवाग्विषया इति प्रशंसा च तदा पूर्वेषामवयवानन्दानामित्यर्थः । प्रतिष्ठाशब्द इति पादयोस्तिष्ठतीत्यधिष्ठानत्वनिबन्धना सेत्यर्थः । तथा चानन्दमयवाक्ये ब्रह्मशब्दसंयोगाभावेऽपि मुख्यस्यानन्दशब्दस्य संयोगात्तैः समाहितं तत्समाहितमिति भावः । यदपि शंकरभाष्ये मुख्यत्वेन स्वीकृते ब्रह्मणि पुच्छत्वप्रतिष्ठात्वोक्तिसमर्थनाय पुच्छवत्पुच्छं प्रतिष्ठापरायणमेकनीडं लौकिकस्यानन्द- जातस्य ब्रह्मानन्द इत्येतदनेन विवक्ष्यते नावयवत्वमित्युक्तं तदपि परास्तमनेन । स्वर्णधर्मेत्यादि 'सुवर्णं घर्मं परिवेदवेनं इन्द्रस्यात्मानं दशधा चरन्तम् । अन्तः समुद्रे मनसा चरन्तं ब्रह्मान्वविन्दद्दश- होतारमर्णे । अन्तःप्रविष्टः शास्ता जनानां एकः सन् बहुधा विचारः शतं शुक्राणि यत्रैकं भवन्ति सर्वे वेदा यत्रैकं भवन्ति सर्वे होतारो यत्रैकं भवन्ति स मानसीन आत्मा जनानाम्' इत्यनुवाक इत्यर्थः । आत्मपदार्थमाहुः आनन्दरूपमिति । चरन्तमित्यस्यार्थमाहुः परमिति । धर्मपदार्थमाहुः प्रकाशकमिति । सुवर्णपदार्थमाहुः कमनीयमिति । इन्द्रस्येत्यस्यार्थमाहुः परमेति । अन्वविन्ददित्यस्यार्थमाहुः ज्ञातवानिति । अन्तःप्रविष्ट इत्यस्यार्थमाहुः स सर्वेति । शास्ते- त्यस्यार्थमाहुः सर्वेत्यादि । बहुधा विचार इत्यस्यार्थमाहुः बहुधा विचरतीति । शतमित्यादेरर्थ- माहुः यत्र सर्वमित्यादि । आनन्दरूपा इति मनसा देवदत्त आनन्दं यातीति प्रयोगात् 'मन आनन्दम्' इति श्रुतेः । भावरूपमिति एतच्च प्रथमस्कन्धे नारदोपाख्याने व्याससमाधिप्रसङ्गे