भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 397, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 397

१०८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० १२ भाष्यप्रकाशः। नच घटाकाशस्य घटविकारत्ववत् प्राणाद्युपाध्यवच्छिन्नस्य प्राणविकारत्वं भामत्युक्तरीत्या सिध्यतीति प्रायपाठसिद्धिरिति वाच्यम् । एतस्या रीतेर्मज्जत्फेनालम्बनकल्पत्वात् । अव- च्छिन्ने तद्विकारत्वस्याप्रत्ययात् । शास्त्रेषु कापि तथाप्रयोगादर्शनाच्च । तुष्यतु दुर्जनन्या- येन तदङ्गीकारेऽपि तस्य सत्यामुभयत्र प्राप्तावेकतरनिर्णायकत्वं, न तु तत्प्रापकत्वमिति मयट्छन्दसीति व्याकरणसूत्रेण, न बह्वच इति नियमिते विज्ञानानन्दशब्दाभ्यां वैकारि- कमयदप्राप्तेरेवाभावेनाऽकिञ्चित्करत्वाच्च । नच मनोरमादिषु, 'मयड् वा'इति सूत्रेण, हेतुम- तुष्येभ्य इत्यनुवर्तमाने हेतुवाचकानन्दशब्दादांगतार्थे मयटं साधयित्वा विकारस्वार्थिक- त्वमुक्तमित्य