भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 400, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 400

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३११ ननु किमिति निर्बन्धेन सूत्रत्रयेणैवं वर्ण्यते । अन्नमयादिवदुपासनापरत्वे- नापि श्रुत्युपपत्तेः । पक्षपुच्छादित्वेन मोदप्रमोदादीनामुक्तत्वाच्च । तस्माद् ब्रह्मत्वेन साधितमप्यावश्यकोपपत्त्यभावान्न ब्रह्मपरत्वमिति प्राप्तेऽभिधीयते । मान्त्रवर्णिकमेव च गम्यते ॥ १४ ॥ 'सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता' इति मन्त्रः । मन्त्रेणाभिधया वृत्त्या प्रतिपाद्यं मान्त्रवर्णिकम् । तदुपपादनग्रन्थे तदेव मुख्यतया ज्ञायते । यन्न यदुद्दिष्टं तदेव मुख्यतया ज्ञातव्यम् । उपपादनीयं च संदिग्धम् । तत्र, ब्रह्मणा विपश्चि- तेति संदिग्धं सर्वज्ञं ब्रह्म । भाष्यप्रकाशः। मान्त्रवर्णिकमेव च गम्यते ॥ १४ ॥ मान्त्रवर्णिकसूत्रमवतारयन्ति नन्वित्यादि । एवमिति परमात्मपरत्वेन । नचोपास्तेरश्रवणादप्रामाणिकं कथं कल्पनीयमिति शङ्क्यम् । तदभावेऽपि विशुद् मुक्तेत्यादिषु विशुद्धाद्युपासनासु प्रकरणबलेन तत्स्वीकारात् । प्रकृते तु पक्षपुच्छादित्वेन मोदप्रमोदादीनां कल्पनयोक्तत्वाच्च लिङ्गस्यापि सद्भावात् । तस्मादुक्तहेतुद्व- याद् ब्रह्मत्वेन साधितमप्यानन्दमयपदमावश्यकोपपत्त्यभावान्न ब्रह्मपरमिति प्राप्ते इत्यर्थः । ब्रह्मपरत्वमिति पाठे त्वेतीति शेषस्त्रुटितो बोध्यः । को मन्त्रः, किं मान्त्रवर्णिकमित्या- काङ्क्षायामाहुः सत्यमित्यादि । तथाच यं कंचिद्धर्ममभिसंधाय शक्यसंबंधानां नानात्वात् तेषु यं कंचिदादाय लक्षणया यत्किंचिदुच्यते, तन्न मान्त्रवर्णिकम् । किंतु मन्त्रेणाभिधया पदशक्त्या मुख्यवृत्त्या यत् प्रतिपाद्यं तत् तथेत्यर्थः । एतस्य मान्त्रवर्णिकस्य कथमुपपत्ति- स्वमित्यत आहुः तदित्यादि । तदुपपादनग्रन्थ इति सर्वस्मिन् प्रपाठके । तथा च तस्य मुख्यत्वादनावश्यकौपपत्तित्वमित्यर्थः । मुख्यत्वमेवास्य कथमित्यत आहुः यन्नेत्यादि । ननु तदेषाऽभ्युक्तेति प्रतिज्ञानान्मन्त्रस्य ब्राह्मणव्याख्यानत्वं स्फुटम् । शिष्टस्य प्रपाठकस्य मन्त्र- व्याख्यानत्वे किं गमकमित्यत आहुः उपपादनीयमित्यादि । संदिग्धमिति विभक्तिभेदात् पदभेदाच्च संदिग्धम् । तथाच संदिग्धोपपादकत्वमेव व्याख्यानत्वगमकमित्यर्थः । ननु रश्मिः । मान्त्रवर्णिकमेव च गम्यते ॥ १४ ॥ प्रकरणेनेति । ननु प्रकरणं कुत इति चेन्न ब्रह्मवि- दित्यत्र विदित्युपासनास्वीकारात् । अक्षरविषयत्वेन तथावसायात् । विभूतिविषयकं ज्ञानमुपासनेति । प्रीतिविषयः शिर इत्यानन्दमयो भक्तिविषयः । तत्स्वीकारादिति प्रामाणिकत्वस्वीकारात् । पूर्वपक्ष- स्तात्त्विकमुपासनापरत्वं वा । पक्षेति भाष्यं विवृण्वन्ति स्म प्रकृते इति । लिङ्गस्येति उपास्तिलि- ङ्गस्य । तस्मादिति भाष्यं विवृण्वन्ति स्म तस्मादिति । बोध्य इति अबोध्य इति न हेतुः किं तु साधितमित्यस्य विशेष्यं ब्रह्मपरत्वं बोध्यमिति भावः । तथा चेति मान्त्रवर्णिकमित्यत्र शैषिकठञ्स्वी- कारेणेत्यर्थः । यं कंचिदिति यथा काकेभ्यो दधि रक्ष्यतामित्यत्र यं कंचित्काकरूपं यं कंचिद् दध्युप- घातकत्वरूपं संबन्धमादाय यत्किंचित्काकपदेन दध्युपघातक उच्यते । यन्नेत्यादीति ब्रह्मविदाप्नोति परमिति यदुद्दिष्टं मन्त्रे । प्रकृते परपदं च । व्याख्याने तु तृतीयाविभक्तिः ब्रह्मपदं चेति तयोर्भेदः । विभ- ४० ब्र० सू० २० 311