भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 401, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 401

An exact, line-by-line transcription of the provided Sanskrit text into clean Markdown in Unicode Devanagari:

३१२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० १ अ० ५ सू० १४ तस्य हि फलत्वं वाक्ये नोपपद्यते । फलं तु सर्वैः स्तुत आनन्दः । अभ्यासात् स्तुतत्वमित्यवोचाम । शिरःपाण्यादिकं तु स्तुत्यर्थमेव पुरुषविधत्वाय । लोके ह्यन्तर्भूतं बहिर्वेष्टितं च तदाकारं भवति । भाष्यप्रकाशः । सर्वज्ञे ब्रह्मणि कस्मिन्नंशे कुतश्च संदेह इत्यत आहुः तस्य हीत्यादि । वाक्य इति मन्त्रे । तथाच ब्राह्मणवाक्ये द्वितीया परस्य फलत्वबोधनात्, तद्व्याख्यानमन्त्रे तु द्विती- यया कामानां फलत्वबोधनाद् ब्रह्मणश्च गौणत्वबोधनात् तस्य फलत्वांशे संदेह इत्यर्थः । तर्हि कथं तस्य फलत्वमुपपाद्यत इत्याकाङ्क्षायां सर्वतः प्रचुरानन्दरूपत्वेनोपपाद्यत इत्याहुः फलं त्वित्यादि । सर्वैरिति प्रकारै