भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 404, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 404

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३१५ कारणम् । बलभोजनविसर्गादिषूपयोगात् । तस्य संचार आकाशे परिनिष्ठितः पृथिव्याम् । एवं लौकिकव्यवहारार्थं बाह्याभ्यन्तरभेदेन द्वयम् । तदनु वैदिकव्यवहारः । स च मनोमयः पुरुषः । आदेशः कर्मचोदना । ब्राह्मणानि सशेषाणि । अथर्वाङ्गिरसे ब्रह्मकर्मत्वात् प्रतिष्ठा । भाष्यप्रकाशः । तदन्तर इत्यादि । अत्र, बलेत्यादिना प्राणादित्रयस्य कार्यमुक्तम् । कोशाद्भेदश्च दर्शितः । स पञ्चवृत्तिको दशवृत्तिको वा । अयं तु त्रिवृत्तिकः । तस्य संचारो नियते देशे हृदादौ । अस्य तु सर्वत्राकाश इति स तस्य स्वरूपलाभहेतुत्वादात्मा । स तु देहे स्थितोऽयं तु सर्वस्यां पृथिव्यामिति । अतो द्विविधभोगसाधनत्वेन स्वाभिमानाय द्वयोः कथनमित्यर्थः । अग्रिमप्रयोजनादिकमाहुः तदन्वित्यादि । लौकिके व्यवहारे वयःप्रभृतिभिः स्वातन्त्र्यसंपत्तौ सत्यां वैदिके प्रवर्तत इति वेदप्रयुक्तो मनोमात्रेन्द्रियप्राणव्यापारस्तस्यानन्तरभावी । तस्य च लौकिकाद् भेदः, 'शब्द इति चेन्नातः प्रभवात्' इत्यत्र सोपपत्तिकं वक्तव्यः । तद्भोग- साधनाय च स वेदात्मको मनोमयः पुरुषः । वेदस्य च मनोमयत्वमेकादशस्कन्धे, 'स एष जीवो विवरप्रसूतिः' इति श्लोकेन भगवतोक्तम् । सशेषाणीति सार्थवादानि । ब्रह्म- कर्मत्वादिति । चातुर्होत्रविधाने ब्रह्मणः कृताऽकृतावेक्षकत्वेन तत्कर्मणोऽथर्वसिद्धस्य कर्म- रश्मिः । प्रकृते । कार्यमुक्तमिति अत्र प्रथमे प्रश्नोपनिषदि 'अहमेतत्पञ्चधात्मानं प्रविभज्य एतद्बाणमवष्टभ्य विधारयामि' इति श्रुतिः । द्वितीये व्यानस्य श्रुत्यन्तरात् आनन्दभुगित्पनेन विकल्प्यते श्रुत्यन्तरम् । विसर्गेऽपानस्य प्रसिद्धोपयोगः । भेदकमाहुः स पञ्चेत्यादि । 'प्राणोऽपानः समानश्चोदानव्यानौ च वायवः' इत्यमरादित्यर्थः । दशोति 'दशेमे पुरुषे प्राणाः' इति शाकल्यब्राह्मणश्रुतेः । पञ्च प्राणादयः पञ्च नागादयश्च । तस्येत्यादिभाष्ये तच्छब्देन प्राणः परामृष्ट इत्यत्रापि तस्येत्यस्य 'तुना' सह संबन्धः । अत्र आकाश आत्मेत्यत्रात्मपदं स्वरूपलाभहेतुत्वेन रूपेण प्राणदेहं वक्तीत्याशयः । प्राणेन्द्रियात्मधिष्ण्यत्वमित्याकाश लक्षणवाक्यादित्याशयेनोक्तं स तस्येत्यादि । पृथिव्यामिति अधोलम्बनसाम्यात्पृथिव्याः पुच्छत्वमपि । द्वयोरिति पुच्छप्रतिष्ठयोरित्यर्थः । अत्र तस्य यजुरेव शिर इत्यत्र मनुष्यकर्मप्रतिपादकस्य यजुषः शिरस्त्वं व्यवहारे मनुष्यकर्मैव मुख्यं 'पुरुषत्वे च मां धीराः' इतिवाक्येनैतत्जातीयश्रीधर्युक्तश्रुत्या च पुरुषकर्माग्निहोत्रादिभिः 'आविस्तरां प्रपश्यन्ति' 'पुरुषत्वे च मां भगवन्तं धीरा' इति । ततः ऋग्वेदो देवदैवत्यो देवताप्रतिपादकः। कर्मविषयप्रतिपादको दक्षिणः पक्षः । ततः सामवेदः पित्र्यः पितृप्रतिपादकः उत्तरः पक्षः । देवानां पितृणां चानेकप्रकारत्वात् । आदेशः कर्मचोदना कर्मचोदनाप्रतिपादकानि ब्राह्मणानि सशेषाणि ह्यात्मा । प्रतिपाद्यप्रतिपादकयो- र्नित्यसंबन्धात्सामानाधिकरणम् । धर्मप्रमितिकाले ब्राह्मणानि धर्मप्रमिति जनयन्तीत्यनुष्ठानकालेऽनुष्ठी- यमानानधर्मान् विषयीकुर्वन्त्या ब्रह्मणः कर्मचोदनाया आत्मत्वम् । अग्रे नोदनाविषयस्य धर्मस्य पक्षत्वमिति नार्थान्तरम् । आदेशा इत्यादि । वय इति प्रभृतिशब्देन 'लोकसिद्धं पुरस्कृत्य वैदिकं बोध्यते यथा' इत्युक्तलोकसिद्धपुरस्कारः । शब्द इतीति तृतीयपाद इत्यर्थः । भाष्ये । आदेशा आत्मेति श्रुतिं विवृण्वन्ति । ऋग्दक्षिणः पक्षः सामोत्तरः पक्षः इत्येतां विवृण्वन्ति ब्राह्मणानीति । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठेति श्रुतिं व्याकुर्वन्ति अथर्वेति । अथर्वाङ्गिरसां दृष्टा मन्त्रो ब्राह्मणञ्च अथर्वाङ्गिरसस्तस्मिन् । प्रकृते । चातुर्होत्रेत्यादि चत्वारो होतारो यत्र कर्मणीति योगः । योगरूढः शब्दः । कृतावेक्षकं तेन च साङ्गं कर्म भवति तदभावे तु व्यङ्गं कर्मेति । साङ्गं कर्म फलाय 315