अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 405, कुल 2600 में से
संदर्भ में पढ़ें३१६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० १४ तदनु नानाविधयागादिसाधनवतः फलं विज्ञानमयः । तत्र श्रद्धा आपः । तृतीयाध्याये त्वयमर्थो विस्तरेण वक्ष्यते । यथोक्तकर्तृत्वात् क्रममुक्तिः । ऋतसत्यौ प्रमीयमाणानुष्ठीयमानौ धर्मो योगश्च मुख्यस्त्वादात्मा । अधो- भाष्यप्रकाशः । स्थैर्यसंपादकत्वादथर्वाङ्गिरसः प्रतिष्ठारूप इत्यर्थः । शान्त्यादिकर्मबोधकत्वात् पुच्छत्वमपि तस्य बोध्यम् । एतेन नानादृष्टिकानन्मनोमयकोशाद् भेदोऽपि दर्शितः । एवं द्विविधैहिकभो- गौपयिकं द्वयं वैदिकव्यवहारौपयिकं तृतीयं चोक्त्वा पारलौकिकभोगौपयिकं चतुर्थमाहुः तदनु नानेत्यादि । विज्ञानमय इति विज्ञानप्रचुरः । तस्यावयवानां स्वरूपमाहुः तत्र श्रद्धेत्यादि । पञ्चाग्निविद्यायां, यतिथ्यामाहुत्या५ हुतायामापः पुरुषवचसो भूत्वा समु- त्थाय वदन्तीति प्रश्नाभिरूपणभागे प्रथमाहुतौ, देवाः श्रद्धां जुह्वतीति कथनाच्च श्रद्धारूपा आपो मुख्या इति सा शिर इत्यर्थः । अस्यार्थस्य काल्पनिकत्वपरिहाराय विचारितत्वं बोध- यन्ति तृतीयेत्यादि । रंहत्यधिकरण इत्यर्थः । ननु प्रथमाहुतौ श्रद्धाहोमस्ततः सोमवृष्ट्य- न्नरेतःक्रमेण पञ्चम्यामाहुतौ हुतायां रेतसः पुरुषभाव इत्यवयवपूर्त्यभावात् कथमस्य जीव- भोग्यत्वं भोगसाधनत्वं वेत्याकाङ्क्षायामाहुः यथोक्तेत्यादि । अन्नमयाद्युक्तोपासनाकर्तृ- त्वात् क्रममुक्तिः । एतेनोपासनाकथनप्रयोजनमपि बोधितम् । तथाच श्रद्धादीनामर्थानां पूर्वसिद्धत्वेन सम्वादेतदवयवास्तु पूर्णा एव । तेन जीवस्य तत्र क्रमिको भोग इति न दौर्घट्यमित्यर्थः । एतेन संशयविपर्ययादिनानावृत्तिकात् विज्ञानमयकोशाद् भेदो दर्शितः । अत्रैतत् सिद्धम् । अन्नमयोपासनायां सर्वान्नप्राप्त्या लौकिको बाह्यो भोगस्ततोऽग्रिमोपासने सर्वायुःप्राप्तिरूप आन्तरः । तदग्रे ब्रह्मानन्दज्ञानात् सर्वदा भयाभावाद् वैदिकः । तदग्रे प्रमादाभावे सति पापनाशपूर्वकसर्वकामाप्तिरूप इति । अवयवान्तरस्वरूपमाहुः ऋतेत्यादि । रश्मिः । स्थिरम् । व्यङ्गं तु नेति । प्रतिष्ठेति स्वरूपलाभहेतुत्वात् । शान्त्यादीति शान्तिकर्मणः सर्वकर्मा- न्तिमत्वेन पुच्छत्वमित्यर्थः । आदिना पौष्टिकादिप्रतिष्ठाहेतोः शांकरभाष्योक्तस्य संग्रहः । तथा च शान्तिपौष्टिकादिप्रतिष्ठाहेतुकर्मबोधकत्वादित्यर्थः । तदन्वित्यादि । तदनु वैदिकव्यवहारलक्षितः । नानाविधयागादिसाधनवत इत्यादि इत्थंभूताख्यानेऽनुः । 'तमेतं वेदानुवचनेन ब्राह्मणा विवि- दिषन्ति' इत्यत्र चित्तशुद्धिद्वारा यागादीनां विज्ञानमयफलकत्वात् । फलं स्वकारणानि विस्तारयति प्रवृत्तिद्वारा । तदुक्तं 'विज्ञानं यज्ञं तनुते' इत्यादिनात्रैव । यतिथ्यामिति यत्संख्यायामित्यर्थः । ननु कस्मादब्वाक्ये श्रद्धालभः इत्यत आहुः निरूपणेति । तथा चैकवाक्यतया श्रद्धालभः इति भावः । मुख्या इति पुरुषरूपफलरूपत्वेन मुख्यत्वम् । सेति तस्य श्रद्धैव शिरः इति श्रुतौ श्रद्धेत्यर्थः । इत्यवयवेति श्रद्धामात्रकथनेन सोमवृष्ट्यन्नरेतसामकथनाद्धेतोरवयवपूर्त्यभावादित्यर्थः । सर्वानेति 'सर्वं वै तेऽन्नमाप्नुवन्ति येऽन्नं ब्रह्मोपासते' इतिश्रुतेरित्यर्थः । सर्वायुरिति सर्वमेव त आयुर्यन्ति येः प्राणं ब्रह्मोपासते इति श्रुतेरित्यर्थः । भयाभावादिति 'यतो वाचो निवर्तन्ते' इतिश्रुतेस्तथेत्यर्थः । प्रमादाभाव इति । 'विज्ञानं ब्रह्म चेद्वेद तस्माच्चेन्न प्रमाद्यति । शरीरे पाप्मनो हित्वा सर्वान्कामान् समश्नुते' ॥ इति श्रुतेरित्यर्थः । ऋतेत्यादि ऋतं प्रमीयमाणो धर्मो ब्राह्मणेः सत्यमनुष्ठीयमानो धर्मो 316