अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 412, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ३२३ नेतरोऽनुपपत्तेः ॥ १५ ॥ इतरो जीवो न । आनन्दमयो न भवति । कुतः । अनुपपत्तेः । जीवस्य फल- रूपत्वमात्रेणानन्दमयत्वं नोपपद्यते । तथा सति तस्य स्वातन्त्र्येण जगत्कर्तृत्वेऽ- त्यलौकिकमाहात्म्यवत्त्वेन निरूपणं नोपपद्यते । अतो न जीव आनन्दमयः ॥ १५ ॥ भेदव्यपदेशाच्च ॥ १६ ॥ इतोऽपि न जीव आनन्दमयः । यतो भेदेन व्यपदिश्यते । 'रसꣳ ह्येवायं लब्ध्वानन्दी भवति' इति । आनन्दोऽस्यास्तीत्यानन्दी । एष ह्येवानन्दयातीति । भाष्यप्रकाशः। नेतरोऽनुपपत्तेः ॥ १५ ॥ इत्यादि । तथा सतीति जीवस्यानन्दमयत्वे सति । निरूपणमिति ब्रह्मणो निरूपणम् । तथाच, 'तस्माद्वा एतस्मादात्मन आकाशः संभूतः' इत्या- दिनोक्तं माहात्म्यं जीवेऽपि गच्छदेतां श्रुतिं विरुन्ध्यादिति माहात्म्यश्रुत्यनुपपत्तेरित्येवार्थः । नचात्रैव जीवस्य निरङ्कुशजगत्कर्तृत्ववारणे कृते फलाध्यायस्थस्य वक्ष्यमाणस्य जगद्व्यापारवर्ज- सूत्रस्य वैयर्थ्यापत्तिरिति शङ्क्यम् । तत्रैतादृशजगद्व्यापारराहित्यस्याविवक्षितत्वेनावैयर्थ्यात् ॥१५॥ भेदव्यपदेशाच्च ॥ १६ ॥ 'रसꣳ ह्येवायं लब्ध्वानन्दी भवति' इत्यत्रानन्दीति लब्धुर्लब्धव्यभेदव्यपदेशो न जीवभेदगमकः । 'आत्मलाभान्न परं विद्यते' इत्यत्र स्वरूपैक्येऽपि लब्धुर्लब्धव्यभेदव्यपदेशदर्शनेन तस्यानियामकत्वादिति परे मन्यन्ते । तन्निवारणायाहुः एष ह्येवेत्यादि । तथाचानया श्रुत्याऽऽनन्दनीयानन्दकत्वेन भेदनिर्देशाज्जीवब्रह्मभेदे सिद्धे रश्मिः। नेतरोऽनुपपत्तेः ॥ १५ ॥ प्रयोजनमिति सुहृदत्वं भाष्योक्तं प्रयोजनम् । निषेधेत्यादि जीवजडनिषेधोपायविचारावश्यकतेत्यर्थः । तस्येत्यादि । सिद्धान्ते तु तस्येत्यभेदे षष्ठी भवति । भवत्विति आनन्दमयत्वरूपफलस्योक्तश्रुत्या पुरुषार्थत्वावसायात् । अधीष्टे लोट् । स ब्रह्मेत्यादि भाष्यमवतारयन्ति न चेति । अत्रैवं जीवस्येति अत्र भक्तदेहे एव जीवस्य ॥ १५ ॥ भेदव्यपदेशाच्च ॥ १६ ॥ तस्येति जीवस्यानन्दप्रचुरत्वनियामकत्वादित्यर्थः । पर इति शंकराचार्याः औपाधिकभेदं जीवानन्दमययोर्मन्यन्ते अतो जीवो नानन्दमय इति । जीवब्रह्मभेद इत्यादि ब्रह्मचिकीर्षया भेदे सिद्धे 'आसीज्ज्ञानमयो ह्यर्थः' इतिवाक्यात् भिदां 'मायामात्रमनूद्यान्ते प्रतिषिद्ध्य प्रसीदति' इति भगवद्वाक्याच्च । चिकीर्षया भेदे सिद्धे इन्द्रियैर्मायापदवाच्याभिः स गृह्यत इत्येकवाक्यतया भेदोक्ताद्वैतयोः । यद्वा । 'आत्ममायामृते राजन् परस्यानुभवात्मनः । न घटेतार्थसंबन्धः स्वप्नद्रष्टुरिवाञ्जसा' ॥ इति वाक्यान्मायासत्त्वकृतो भेदो वर्तते इत्यदोषः । विकल्प एव वा 'एकोहं बहु स्याम् प्रजायेय' इतिश्रुत्या साकं भगवद्वाक्यस्य । श्रुत्योर्विरोधे विकल्प इत्येवं मनुस्मरणात् । इदानीं कथं तर्हि 'आत्मान्वेष्टव्यः' 'आत्मलाभान्न परं विद्यते' 'आत्मन्येवात्मना तुष्टः' इति श्रुतिस्मृतयो भवन्ति । यावता न लब्धैव लब्धव्यो भवतीत्युक्तमित्याशङ्क्य तथाप्यात्मनोऽनपह्नुतात्मभावस्यैव सतस्तत्त्वानव- बोधनिमित्तो देहादिष्वनात्मस्वात्मत्वनिश्चयो लौकिको दृष्टः तेन देहादिभूतस्यात्मनोऽप्यात्मानन्विष्टो ऽन्वेष्टव्योऽलब्धो लब्धव्योऽश्रुतः श्रोतव्योऽमतो मन्तव्यो विज्ञातव्यः इत्यादिभेदव्यपदेश उपपद्यत 323