अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 413, कुल 2600 में से
संदर्भ में पढ़ें३२४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० १७ आनन्दयतीत्यर्थः । चकारात् सूत्रद्वयेन जीवो नानन्दमय इति निरूपितम् ॥ १६ ॥ तर्हि जडो भवत्वानन्दमयः । न । आन्तरत्वान्न कार्यरूपो भवति । किं तु कारणरूपः । स स्वमते नास्त्येव । मतान्तरे तु प्रकृतिर्भवेत् । तन्निवारयति । कामाच्च नानुमानापेक्षा ॥ १७ ॥ जडा प्रकृतिर्नास्तीति कारणत्वेन निराकृतैव । अथैतद्वाक्यान्यथानुपपत्त्या सत्त्वपरिणामरूपा कल्प्यते । सा कल्पना नोपपद्यते । कुतः । कामात् । आनन्दमयनिरूपणानन्तरं, 'सोऽकामयत' इति श्रूयते । स कामश्चेतनधर्मः । अतश्चेतन एवानन्दमय इति । चकारात्, 'स तपोऽतप्यत' इत्यादि । अतोऽनुमान- पर्यन्तमर्थमबोधयद् वाक्यं न तिष्ठतीत्यर्थः ॥ १७ ॥ भाष्यप्रकाशः । आनन्दीति निर्देशस्यापि भेदोपोद्वलकत्वे बाधकाभावात् । आत्मलाभश्रुतावपि न जीवलाभ- स्तात्पर्यविषयः, किंतु परमात्मलाभ एव । तत्र भूम्न एवात्मतया सनत्कुमारेण नारदं प्रति छान्दोग्ये व्याख्यातत्वात् । अतो जीवब्रह्मैक्यस्य तद्रीत्या अभ्युपगमैकशरणत्वमिति दृष्टा- न्तोऽप्यसंगत एवेत्यर्थः । नानन्दमय इति कस्यामप्यवस्थायां तथा ॥ १६ ॥ कामाच्च नानुमानापेक्षा ॥ १७ ॥ कामाच्चेति सूत्रद्वयमवतारयन्ति तर्हि जड इत्यादि । नेति । एतदेव विभजन्ते आन्तरत्वादित्यादि । मतान्तर इति सांख्यमते । जडेत्यादि 'प्रधानक्षेत्रज्ञपतिर्गुणेशः' इत्यादौ प्रधानादिशब्दैः श्रुतावुक्तापि यादृशी सांख्यैर्जडा मूलकारणभूताङ्गीक्रियते तादृशी श्रुतौ नास्तीतीक्षतिसूत्रे कारणत्वेन निराकृतैव । अथ तस्य प्रियमेवेत्यवयवकल्पना वाक्यान्यथानुपपत्त्या आत्मपदार्थं गौणमङ्गीकृत्य आनन्दस्य सुखात्मक- त्वेन सत्त्वधर्मत्वात् सत्त्वपरिणामरूपा कार्यभूता कल्प्येत, सा तथेत्यर्थः । अनुमानपर्य- रश्मिः । इत्यादि भाष्यं निरस्यन्ति आत्मलाभेत्यादिना । दृष्टान्तासंगतिमाहुः अत इत्यादि । दृष्टान्त इति यथा मायाविनश्चर्मखड्गधरा उत्सूत्रेणाकाशमधिरोहन्तः स एव मायावी परमार्थरूपो भूमिष्ठोऽन्यः । यथा वा घटाकाशाद्युपाधिपरिच्छिन्नादनुपाधिपरिच्छिन्न आकाशोऽन्यः इतिभाष्योक्तदृष्टान्त इत्यर्थः । तथेति चकाराद्धेतुसमुच्चयार्थादनुपपत्तेर्भेदव्यपदेशाच्च नेतर आनन्दमयः इत्यन्वयात्सूत्रद्वयेन जीवो नानन्दमय इत्यर्थः ॥ १६ ॥ कामाच्च नानुमानापेक्षा ॥ १७ ॥ प्रधानेत्यादिश्रुतिस्तु श्वेताश्वतरेस्ति । अत्र प्रधानादिस- म्दैरिति बहुवचनेन ज्ञायते प्रधानपदेभ्यः सुपां सुलुकू इत्यनेन सूत्रेण लुगिति । ईक्षतिसूत्र इति ईक्षत्य- धिकरणस्य 'गौणश्चेन्नात्मशब्दात्' इति सूत्र इत्यर्थः । ईक्षत्यधिकरणस्य नामैकदेशग्रहणमीक्षत्यधिकरणस्य सूत्रे । अथवा स्यादेतदित्यारभ्य युक्त इत्यन्तः संदर्भः ईक्षतिसूत्रस्यैव । ततश्चेत्यारभ्य गौणश्चेत्यादिसूत्रभाष्य इतीक्षतिसूत्र एव निराकृता । उपलक्षणमेतत् । 'स्वाप्यया'दितिभाष्ये रचनाधिकरणे निराकृतैवेति 324