अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 416, कुल 2600 में से
संदर्भ में पढ़ेंरेण व्याख्यायते । तत्र ज्ञानशेषस्य ब्रह्मण ऋचि स्वरूपलक्षणवाक्यादेवासंदिग्धं प्रतीते- स्तत्र संदेहानुदयेन तदर्थमुपपादनविस्तारस्याप्रयोजकत्वात् फलवाक्ये विभक्तिवचनयोर्भेदेन संदेहात् तदर्थ एव संपूर्णप्रपाठक उपपादनीयः । अत उपपादनबीजत्वेन ज्ञानशेषस्य ब्रह्मणो मन्त्रवर्णे प्रकृतत्वकथनमेवासंगतम् । अत एव तद्विजिज्ञापयिषया पञ्चानां कोशत्व- कथनपि तथा । ज्ञेयपरयोरैक्याङ्गीकारोऽपि शब्दान्तरप्रयोजनाननुसंधानात् तथा । विका- रप्रत्ययासंभवस्य प्रागुपपादितत्वाच्च प्रायपाठविरोधोक्तिराकस्मिकत्वोक्तिश्चापि तथा । प्रिया- द्यवयवयोगस्य बाधकत्वकथनपि तथा । द्वितीयवर्णकसमाप्तिस्थपरोक्षवादव्याख्यातरीतिकभ- क्तहृदयाधिकरणप्रादुर्भावाज्ञानात् । केवलनिर्विशेषब्रह्मवादस्येक्षत्यधिकरण एव निरस्तत्वाच्च । एकस्यावयवावयविभावविरोधकथनपि, प्राणस्य प्राणमिति श्रुतिस्यस्य, नेह नानास्तीति भाग- स्यार्थाज्ञानादेव । आकारदर्शनं विना नानात्वस्फुरणायोगेन तस्य निषेधानर्हतया तेनैवाका- रप्राप्तौ सत्यां नानात्वनिषेधस्यावयवावयविभावविरोधाभाव एव पर्यवसानादिति । एवं, ‘कृत्स्नः प्रज्ञानघन एव’ इति कृत्स्नपदादपि ज्ञातव्यम् । अकृत्स्नत्वापादकभेदपुञ्क्योदयं विना भेदनिवारणफलककृत्स्नपदवैयर्थ्यस्य दुष्परिहरत्वादिति । एवमसन्नेवेति श्लोकस्य ब्रह्म पुच्छेत्यु- क्तब्रह्मपरत्वोत्रेक्षणमपि निर्हेतुकम् । अभमयादिश्लोकानामिवान्याप्यवयवपरतायाः प्राञ्जला- यास्त्यागे बीजाभावात् । नच प्रियमोदादिरूपस्यानन्दमयस्य सर्वप्रतीतिगोचरत्वात् तद्विषय- कभावाभावशङ्काभावादेतस्य श्लोकस्यासंगतिरेव बीजमिति युक्तम् । उक्तप्रियादिपञ्चावयव- विशिष्टावयविरूपेणानन्दमयपुरुषज्ञानस्य स्वतः क्वाप्यदर्शनेनोक्तश्रुतित एव ज्ञानसंभवे तत्र मयान्ताः पञ्चकोशाः कल्प्यन्ते तत्र कुतः प्रकृतहानोऽप्रकृतप्रक्रियाप्रसङ्ग इति । ज्ञानशेषस्येति ब्रह्मविदिति श्रुत्यंशे ज्ञानविषयस्येत्यर्थः । तदर्थं ज्ञानशेषब्रह्मार्थम् । विभक्तीत्यादि परमिति ब्रह्मणा विपश्चितेति च विभक्तिभेदः । परमिति सर्वान् कामानिति च वचनभेदः । तदर्थ इति ज्ञान- शेषब्रह्मार्थे । तत एवेति ज्ञानशेषस्य ब्रह्मणोऽप्रकृतत्वादेवेत्यर्थः । एतेन नन्वानन्दमयावयवत्वेन ब्रह्म पुच्छं प्रतिष्ठेत्युच्यते । अन्नमयादीनामिवेदं पुच्छं प्रतिष्ठेत्यादि तत्र कथं ब्रह्मणः स्वप्रधानत्वं शक्यं विज्ञातुम् । प्रकृतत्वादिति ब्रूम इति भाष्यमपि निरस्तम् । तथेति असंगतम् । संनियोगशिष्टन्यायात् । विभूतित्वस्यान्नमयादीनामुपपादितत्वाच्च । ऐक्येति ब्रह्मविदाप्नोति परमित्यत्रेत्यर्थः । शब्दान्तरेत्यादि उत्क्रमणादिशब्दान्तराणामित्यर्थः । एतच्च द्वितीयाध्यायतुतीयपादे स्फुटम् । ब्रह्मशब्दात्परशब्दः शब्दान्तरं वा । इतः परं क्रमेणोक्तानि दूषणान्युद्धरन्ति स्म विकारेत्यादि । बाधकत्वेत्यादि असामञ्जसरूपबाधकत्वेत्यर्थः । द्वितीयवर्णक इत्यादि द्वितीयस्मिन् वर्णके आनन्दमयोभ्यासात् इत्येवं पुनः सूत्रप्रक्षेपेण वर्णके समाप्तिस्थो यो वस्तुतस्त्वित्यादिना भणितः परोक्षवादस्तेनेत्यादि । ‘ततो ह जातो भुवनस्य गोपा हिरण्मयः शकुनिर्ब्रह्मनाम’ इति श्रुतेः । कदाचित्प्रादुर्भावस्थले शकुनि- द्वयदानमपि यथा मन्वन्तरिक्षदेवेनादेहेन शकुनिद्वयं दत्तं मार्जारपरिमाणकम् । बीजाभावादिति