अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 417, कुल 2600 में से
संदर्भ में पढ़ेंविश्वासरहितस्य निन्दाया विश्वस्तस्य प्रशंसायाश्च बोधनेनासासङ्गत्यभावात् । एवं, 'यतो वाचः' इति वाक्यशेषस्य निर्विशेषसमर्पकत्वकथनपि तथा । नायमात्मेति मन्त्रे स्वकृततनु- विवरणश्रावणेनैतदुत्तरार्धे श्रावितस्यानन्दवत्त्वस्यापि तत एव सिद्ध्या तदनुगृहीतवाङ्मनस- योरगोचरत्वस्यापि तत एव सिद्धेस्तस्य निर्विशेषसमर्पकतायाः कल्पयितुमशक्यत्वात् । किंचो- क्तप्रणाल्या वेदनविषयाणामलौकिकानामेव प्रियादीनामत्र पूर्वोक्तरीत्या परामर्शात् तेषां प्रति- शरीरं भेदाभावादेवानन्दमयस्यानेकत्वमपि न शक्यकल्पनम् । अत आनन्दमयेऽनेकत्वप्रस- ञ्जनाय लौकिकानां प्रियादीनामादरोऽप्यसंगत एव । यत्पुनर्न चानन्दमयपदाभ्यासः श्रूयत इत्यादिना आनन्दमयपदाभ्यासे आनन्दमयपदाभ्याससाधकत्वकल्पनत्वमुक्तं तदपि तथैव । यतोऽभ्यासोऽभ्यस्यमानं भिन्दन्नभ्यस्तपदवाच्येन सामान्यरूपेण तं भिनत्ति, किंतु पदान्त- रोक्तेन विवक्षितरूपेण । समिधो यजतीत्यादिरूपे तदुदाहरणे पञ्चसु यागत्वे समानेऽपि पदान्तरोक्तसमिदादिरूपेणैव भेददर्शनात् । एवं सति तत्र यथाभ्यस्तो यजतिः समिदादि- रश्मिः । नहि देवदत्तावयवे संपूर्णदेवदत्तत्वमुपपादयितुं शक्यम् । विश्वासेत्यादि श्रुत्या प्रतिपादनादेतादृशमेव ब्रह्मेति ज्ञानेरहितस्य । शुद्धमनोवशस्येति यावत् । विश्वस्तस्येति श्रुत्या प्रतिपादनादेतादृशमेव ब्रह्मेति सत्यं दधतः । असंगतीत्यादि तथा च युक्तिनिषेधे पर्यवस्यत्ययं श्लोकः इति भावः । तथा च नेदमपि ब्रह्म पुच्छं प्रतिष्ठेत्यत्र ब्रह्मण एव स्वप्रधानत्वमित्यस्य गमकमित्यानन्दमयावयवत्वेनापि ब्रह्मणि विज्ञायमाने न प्रकृतत्वं हीयते । आनन्दमयस्य ब्रह्मत्वादित्येवेति भावश्च । नायमात्मेत्यादि मुण्डकस्त्वयं मन्त्रः । यत्र ब्राह्मणानां मन्त्र इति समाख्या स मन्त्र इति मन्त्रलक्षणात् । स्वकृतेति स्वां तनुं विवृणुते संभजते प्रकाशनार्थम् । रामोत्तरतापनीयात् । तस्य तनुं स्वां स्वकीयां कृत्वेति वा गुरुत्वन्वामयोगोलके वह्निरिव महावेशात् । एतदुत्तरार्ध इति । यत इत्यस्याः श्रुतेरुत्तरार्धे । तत एवेति वृततन्वा एवेत्यर्थः । यतस्तन्वा मनआदिभिरानन्दज्ञानं मनसि जायते इति । तद्विष्यादि तनुविवरणकर्तुरात्मनोनुग्रहीतेत्यर्थः । तत एवेति आवृत्ततन्वा एवेत्यर्थः । तस्येति वाक्यशेषस्ये- त्यर्थः । निर्विशेषेत्यादि आनन्दं ब्रह्मण इत्यत्रानन्दो मायिको विवर्त इति मायावादः 'इन्द्रो मायाभिः पुरुरूप ईयते' इति श्रुतौ मायिकत्वमैन्द्रियकत्वं भिदां 'मायामात्रमनूद्यान्ते प्रतिषिध्य प्रसीदति' इति भगवद्वाक्यादिति । सिद्धान्तान्तरे ब्रह्मवादः । उभयव्यपदेशाधिकरणरीत्या विद्वन्मण्डनोक्तरीत्या च सकलविरुद्धधर्माश्रयो ब्रह्मेति राद्धान्ती यो ब्रह्मवादः । अत इति साकारस्यैव ब्रह्मणो व्यापकत्वमिति सिद्धान्तात् । अभ्यस्यमानमिति यथात्र प्रस्तुतानन्दम् । सामान्येति यथात्र प्रस्तुतानन्देऽभ्य- स्तत्वं प्रस्तुतत्वं च तयोरभ्यस्तत्वसामान्यं रूपं प्रस्तुतं विशेषरूपं तथा यागत्वं सामान्यरूपं समिद्यागः तनूनपाद्याग इत्यादौ समिदादिविशेषरूपं विशेषणत्वात्तदुक्तमत्र किं तु पदान्तरोक्तेनेत्यादिना । पदान्तरोक्तेत्यादि यद्यपि शास्त्रदीपिकादौ अभ्यस्तविधिश्रुत्या कर्मभेद इत्येवोक्तं तथापि केन रूपेनेति विचार्यमाणे सामान्यरूपेण संभवादेतेनैव रूपेनेति भावः । नैयायिकीरीत्या शक्तं पदं स्वीकृत्य स्तुत्या प्राचुर्यार्थकानन्दाभ्यासादन्नमयादिभेदसाधकत्वाद्ध्यानन्दाभ्यास इत्याशयेनाहुः १. समसाचान् । २. माहायं वेदान्तेषु ब्राह्मणत्यात् । 328