अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 418, कुल 2600 में से
संदर्भ में पढ़ेंन तावज्जीवः । तस्य ब्रह्मज्ञानफलत्वेन, ब्रह्मणा विपश्चितेत्यानन्दमयस्यो- क्तत्वात् । भाष्यप्रकाशः । पदाभ्यासकल्पनानपेक्ष एव समिदादिरूपयागभेदसाधकस्तथात्रानन्दपदमप्यानन्दमयपदाभ्यास- कल्पनापेक्षमेवानन्दमयरूपानन्दभेदसाधकमिति स्फूर्त्या तादृशशङ्काया एवानुदयादिति बोध्यम् । अथानन्दवल्लीभाष्ये यदुक्तमानन्द इति विद्याकर्मणोः फलं, तद्विकार आनन्दमय इति । प्रियादिवासनानिर्वृत्तो ह्यात्मानन्दमयो विज्ञानमयाश्रितः खम उपलभ्यत इति च । तदप्य- संगतमिति । तत्रान्त्यं दूषयन्ति नेत्यादि । अयमर्थः । ब्राह्मणे परशब्देनोदितं फलं तद्व्या- ख्यारूपायामृचि न केवलेन कामपदेन शक्यवचनम् । तेषां ज्ञेयब्रह्मापेक्षया अपरत्वेन श्रुत्युपजीव्यब्राह्मणस्थपरशब्दविरोधापातात् । किंतु विपश्चिद्ब्रह्मपदाभ्यां सहितेन । अतः, सर्वान् कामान् सह ब्रह्मणा विपश्चितेत्येतावन्तं ग्रन्थं व्याख्यातुं सर्वप्रपाठक इत्युपपादितम् । तथा सत्यन्नमयादीन्निरूप्य सर्वान्तरः प्रियाद्यवयववानन्दमयो यो व्याख्यायते स जीवस्य ब्रह्मज्ञानफलत्वेनैव व्याख्यायते । तत्रावयवा एव कामपदार्थोऽवयव्येव विपश्चिद्ब्र- ह्मेति सिध्यति । उत्तरत्रैतमानन्दमयमात्मानमुपसंक्रामतीत्यनेन तादृशस्य तस्यैव पर्यवसि- रश्मिः । अत्रानन्दपदमित्यादि । अत्रेति ब्रह्मवित्प्रपाठके । आनन्दमयरूपेति अत्रानन्दशब्दप्राचुर्येण प्रस्तुतानन्दविवक्षा ज्ञेया । तादृशेति आनन्दमयपदाभ्यासश्रवणरूपशङ्कायाः । आनन्दमयपदाभ्यास- श्रवणकल्पनानपेक्षत्वेनानुदयात् । अत्राभावस्य प्रतियोगिज्ञानसापेक्षत्वाङ्गीकारादेवकारः । न चैवमपि वर्णके दृष्टान्तविरोध इति वाच्यम् । वर्णक आनन्दपदेनोपसंक्रामतेर्विवक्षितत्वात् स्थानसाम्यात् । तथा चैतमन्नमयमात्मानमुपसंक्रामति, एतं प्राणमयमात्मानमुपसंक्रामति, एतं मनोमयमात्मानमुप- संक्रामति, एतं विज्ञानमयमात्मानमुपसंक्रामति, एतमानन्दमयमात्मानमुपसंक्रामतीति पञ्चकृत्वोभ्यस्त उपसंक्रामतिरन्नमयादिभेदसाधक इति दृष्टान्तसाम्यं बोध्यम् । अभ्यासादित्यत्र सामान्यरूपेणाम्यास- त्वेनाभ्यासकथनात् । एतेन यस्त्वयं मयडन्तस्यैवानन्दशब्दस्याभ्यासः एतमानन्दमयमात्मानमुप- संक्रामतीति न तस्य ब्रह्मविषयत्वमस्ति विकारात्मनामेवान्नमयादीनामात्मनामुपसंक्रमितव्यानां प्रवाहे पठितत्वादिति भाष्यमपि प्रत्युक्तम् । विकारे मयटः प्राप्त्यभावात् । किं चैतेनानन्दमयस्य ब्रह्मत्वे निर्णीते ह्यानन्दपदस्य लक्षणयानन्दमयपरत्वज्ञानादभ्याससिद्धिः । तत्सिद्धौ तन्निर्णय इत्यन्योन्याश्रय- फलकं यत्, यदि चानन्दशब्दस्य ब्रह्मविषयत्वं निश्चितं भवेत् तत उत्तरेष्वप्यानन्दमात्रप्रयोगेषु आनन्दमयाभ्यासः कल्प्येत न त्वानन्दमयस्य ब्रह्मत्वमस्ति प्रियशिरस्त्वादिभिर्हेतुभिरित्यावोचामेति भाष्यं प्रत्युक्तम् [आनन्दमयेत्यादि अत्रानन्दपदं प्राचुर्येण प्रस्तुतानन्दवाचकमेवमेव सामानाधिकरण्यात्] विद्याकर्मणोरिति पुण्यकर्मार्थकं कर्मपदं समासघटकं बोध्यम् । आनन्दसाधनत्वात् । विकारार्थ- मयडन्तत्वे स्वानुभवं प्रमाणयति स्म प्रियादीत्यादि । प्रियादिकर्मजन्यसंस्कारविशेषरूपवासनया निर्वृत्त आनन्दित इत्यर्थः । आनन्दमय इति विषयानन्दमयः फलत्वाद्विज्ञानमयाश्रित इत्यर्थः । इतीति इतिहेतुवाचकः । तत्र तयोः पक्षयोः । शक्यवचनमित्यत्र व्याख्यातुमिति शेषः । सहितेनेति कामपदेनेति विशेष्यम् । उपपादितमिति उपपादनीयं च संदिग्धमिति भाष्य उपपादितम् । जीवस्येति भाष्यीयस्य तस्येत्यस्य व्याख्यानम् । तेनैतद्भाष्यपूर्वभाष्यस्य न तावज्जीव इत्यस्य जीवः प्रियादिवासनानिर्वृत्तो ह्यान्नन्दमयो विज्ञानमयाश्रित इत्यर्थः । कामपदार्थ इति काम्यन्त इति कामाः प्रियादयः । तादृशस्य तस्येति अवयवविशिष्टस्यावयविन इत्यर्थः । तर्कमप्याहुः 329