अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 419, कुल 2600 में से
संदर्भ में पढ़ें३३० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० १८ भाष्यप्रकाशः। त्फलत्वेनोपसंहारात् स यदि जीवत्वेन विवक्षितः स्यात् प्रथमान्तत्वेनात्र निर्देशः स्यात् । सोऽश्नुत इति श्रुतौ फलशेषिणो जीवस्य प्रथमान्तत्वेनैव निर्दिष्टत्वात् । भोक्तृफलयोरै- क्यापत्तिश्च स्यात् । किंचान्नमयादीनां व्यवहारे सतामत्र प्रायपाठेनाकसात् तद्विहाय स्वप्नो- पलभ्यमानग्रहणे तद्विरोधोऽपि । किंच ब्रह्मांशस्याविद्ययात्यन्तमभिभूतवमानिनो जीवस्य 'ब्रह्म वेद ब्रह्मैव भवति' इत्युक्तो ब्रह्मभावः सर्वात्मभावरूपं ज्ञानं तदधिकाररूपा अविद्यानिवृत्तिश्च न ब्रह्मज्ञानफलत्वेन वक्तुं शक्यानि । ब्रह्मभावस्यावरणभङ्गमात्रेण स्वतः भवनस्य भवतिना बोधनात् । प्रकृते तदङ्गीकारे द्वितीयाविभक्तिपीडा लक्षणादोषश्च स्याताम् । ज्ञानस्य तथा- रश्मिः। स यदीत्यादिना स आनन्दमयः । अथ जड इत्यादिभाष्यं विवृण्वन्ति स्म किं चेत्यादि । अन्नम