अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 423, कुल 2600 में से
संदर्भ में पढ़ें३३४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० १८ मौर्ख्यं चैतत् । आनन्दमयस्यैव ब्रह्मत्वे न कोपि दोषः स्यात् । आनन्द- मयस्याब्रह्मत्वं परिकल्प्य तत्पुच्छत्वेन ब्रह्म वेदबोधितमिति ज्ञात्वा तत्समाधा- नार्थं यतमानो महामूढ इति विषयफलयोः किं मुख्यमित्यप्यनुसंधेयम् । पुच्छत्वोक्तिस्तु पूर्वभावित्वाय । अत एव ज्ञानविषयत्वं प्रतिष्ठा च । आनन्दमयो ब्रह्मण्येव प्रतिष्ठित इति । अत्रावयवावयविभावो भाक्त इति तु युक्तम् । भाष्यप्रकाशः । मौर्ख्यमित्यादि । एतत् अन्यथारचनम् । चकारादधिकरणभङ्ग उभयमपि मौर्ख्यम् । तत्र हेतुरानन्दमयस्येत्यादि । त्वदुद्भावितानां दोषाणां प्रागेव परिहृतत्वादन्येषां चाभावात् तथेत्यर्थः । ननु प्रकारान्तरेण योजनं कौशलाय भवतीति कथं मौर्ख्यमित्यत आहुः आनन्दमयस्याब्रह्मत्वमित्यादि । तथाच भवेत् कौशलाय यद्यानन्दमयस्याब्रह्मत्वं न कल्पयेत्, पुच्छश्रुतिं च न बाधेत् । तत्तु करोतीत्यतस्तथेत्यर्थः । ननु शास्त्रे प्रकृतं ब्रह्मैव मुख्यमतस्तस्य तथात्वं साधयितुमयं यत्नः कथं मौढ्यायेत्यत आहुः विषयेत्यादि । प्रकृ- तत्वस्योभयत्र तौल्यान्न तेन रूपेण मुख्यत्वं निर्णयं किंतु रूपान्तरेण । तथा सति तु त्वदभिमतस्य न मुख्यत्वं किंतु फलस्येति विषयमुख्यत्वार्थमपार्थो यत्न इत्यर्थः । ननु भवत्वेवं तथापि विषयत्वेनावश्यकस्य पुच्छत्वोक्तिकृतोऽपकर्षः कथं सोढव्य इत्यत आहुः पुच्छेत्यादि । सा तु पूर्वं तन्प्राप्तिबोधनाय । न हि द्वारं गृहं वा अप्राप्य तत्र स्थितं पुरुषं कश्चित् प्राप्नोति । तेन तथेत्यर्थः । अत्र गमकमाहुः अत इत्यादि । आनन्द- मयस्य तत्र स्थितौ गमकमाहुः प्रतिष्ठेत्यादि । नन्वेवं सति द्वैतमापद्यते, तच्च नेह नानाऽ- स्तीत्यादिभिर्निषिद्धमतो नोक्तं साधीय इत्यत आहुः अत्रेत्यादि । भाक्तत्वस्य प्रामाणिक- त्वान्न द्वैतापत्तिदोष इत्यर्थः । ननु भाक्तत्वे भवता हंसाकारः कथं समर्थनीय इति रश्मिः । मौर्ख्यमिति आनन्दमयस्यैव ब्रह्मत्वे कल्पनालाघवं तदकरणात् पाण्डित्यविरुद्धं मौर्ख्यम् । पण्डा- लाघवबुद्धिः सा न जातेति । तत्तु करोतीति पुच्छवत्पुच्छं प्रतिष्ठापरायणमेकनीडं लौकिकस्यानन्दजा- तस्य ब्रह्मानन्द इत्येतदनेन विवक्ष्यते नावयवत्वम् । 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति श्रुत्यन्तरादिति भाष्येण पुच्छश्रुतिबाधकरणं बोध्यम् । अतस्तथेत्यर्थः अतः कारणान्महामूढ इत्यर्थः । गुरुव्यासरोक्तआनन्दमयस्य ब्रह्मत्वकल्पनं मोहादिति मूढः तमःकार्ययुक्तः शंकरत्वात् तत्पुच्छत्वेन ब्रह्मवेदबोधितमिति ज्ञात्वा तत्समाधानार्थं यत्नो महामोहादिति महामूढो महेश्वर इत्यर्थः । ब्रह्मविदित्यत्र ब्रह्मज्ञानविषयत्वेन प्रकृतं सर्वान् कामान् सह ब्रह्मणा विपश्चिता इत्यनेन सावयव- ब्रह्मरूपानन्दमयं फलत्वेन प्रकृतम् । एवं च प्रकृततावच्छेदकफलत्वावच्छिन्नं आनन्दमयमेव मुख्यं न तु प्रकृततावच्छेदकविषयत्वावच्छिन्नं ब्रह्मेत्युपक्रमोपि फलरूपसानन्दमयस्यैवेत्याहुः प्रकृतत्व- स्येत्यादिना 'शोपध' इत्यस्य लिङ्गानुशासनसूत्रस्यैतदतिरिक्तो विषयः । नन्वेवमिति पुच्छरूपाक्षरा- भिन्नत्वे सति तत्प्रतिष्ठितत्वे सति । भाक्तत्वस्येत्यादि 'अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स १. मौर्ख्यारिरिषः । 334