अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 424, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ३३५ प्राणमयादीनामपि तथात्वात् । अन्तःस्थितस्य बाह्यानुरोधेन तथात्वमिति सर्वं सुस्थम् ॥ १८ ॥ इति प्रथमाध्याये प्रथमपादे पञ्चममानन्दमयाधिकरणम् ॥ ५ ॥ भाष्यप्रकाशः। शङ्कायामाहुः अन्तरित्यादि । बाह्यो जीवस्तदनुरोधेन तथाकार इति न कोऽपि शङ्का- वकाशः । तत्प्रकारस्य पूर्वमेवोपपादितत्वात् सर्वं प्राचां वचनं समीचीनमेवेत्यर्थः । एवं च यद्भामतीनिबन्धे पक्षद्वयं व्याख्यायोक्तम् । 'प्रायपाठपरित्यागो मुख्यत्रितयलङ्घनम् । पूर्वस्मिन्नुत्तरे पक्षे प्रायपाठस्य बाधनम्' इति । अर्थस्तु, आनन्दमयपदस्य ब्रह्मार्थत्वपक्षे मयदर्थस्य विकारस्य त्यागेन प्राचुर्यार्था- ङ्गीकारेण प्रायपाठपरित्यागः । आनन्दमयपदस्य ब्रह्मण्यप्रसिद्धस्य लक्षणया योगेन वा ब्रह्मणि व्याख्याने मुख्यार्थोल्लङ्घनम् । आनन्दपदाभ्यासेन च ज्योतिरधिकरणपूर्वपक्षे ज्योतिःपदेन ज्योतिष्टोमवदानन्दमयो लक्ष्यत इत्यानन्दपदस्यापि मुख्यार्थोल्लङ्घनम् । पुच्छ- पदं च बाह्यौ शक्तमानन्दमयावयवे गौणमिति तत्समानाधिकरणब्रह्मपदमपि स्वार्थत्यागेन तत्परमतस्तस्यापि मुख्यार्थोल्लङ्घनममिति चत्वारो दोषाः । विकारार्थत्वपक्षे तु ब्रह्मपदस्य न स्वार्थत्यागो, नाप्यानन्दमयपदस्य, न चानन्दपदस्य । पुच्छपदमुख्यार्थबाधस्त्ववयवप- रतायामधिकरणपरतायां च तुल्यः । अवयवप्रायपाठबाधश्च विकारप्रायपाठबाधेन तुल्य इति विकारार्थग्रहणपक्ष एव साधीयानिति । तदपि व्याख्येयपूजनमात्रमेव, ० न तु तात्त्वि- कम् । विकारार्थस्य प्राणमये बाधितस्य घटाकाशदृष्टान्तेनोज्जीवयितुमशक्यत्वात् । अप्राकृत- रश्मिः । शृणोत्यकर्णः' इत्यादिश्रुतिषु पर्युदासार्थकनञ्श्रवणादिति भावः । तदनुरोधेन तथेति जीवे प्रवेशानुरोधेन तथा हंसाकार इत्यर्थः । नन्वानन्दमयस्यैव साकारत्वमिति सिद्धान्तात् कथं विज्ञान- मयानुरोधेन हंसाकार इत्याकाङ्क्षायां समाधानमाहुः तत्प्रकारस्येत्यादि । पूर्वमेव मान्त्रवर्णिकसूत्र एव जीवोऽत्र मुख्य इत्यादिना वर्णयतीत्यन्तेन । तथा च स सिद्धान्तः पौरुषाकारपरो न तु हंसाकारमात्रपर इति भावः । एवं चेति प्राचां सर्ववचनस्य समीचीनत्वे प्रकारे चेत्यर्थः । पक्षद्वयमित्यादि । प्राचुर्यविकाररूपपक्षद्वयं व्याख्याय वाचस्पतिकेनोक्तं पूर्वस्मिन्नित्यादि । पूर्वस्मिन् प्राचुर्ये उत्तरे विकारे अप्रायपाठस्येत्यादिरित्यर्थः । मुख्यत्रितयलङ्घनं व्याचष्टे आनन्दमयपदस्येत्यादिना । अप्र- सिद्धस्येति । ननु क्व प्रसिद्धिरिति चेत्कोशे इति गृहाण । लक्षणयेति ब्रह्मकोशयोर्जन्यजनक- भावो लक्षणा तया । लक्ष्यत इति विकारविकार्यभावसम्बन्धेन लक्ष्यते । विकारविकार्यभावसम्बन्धो लक्षणा । तत्समेति तदेकार्थकेत्यर्थः । भिन्नप्रवृत्तिनिमित्तत्वे सत्येकार्थबोधकेत्यर्थः । भिन्नप्रवृत्ति- निमित्तैकार्थबोधकत्वसम्बन्धो लक्षणात्र । दोषा इति पूर्वस्मिन् पक्ष इत्यर्थः । उत्तरे पक्षे इत्यादि । व्याकृतेनप्रायपाठस्य बाधनमित्युपलक्षणमित्याशयेन विकारेत्यादि । अवयवेत्यादि विकारपक्षे- ऽवयवपरतायां प्राचुर्यपक्षे पुच्छस्य ब्रह्मत्वमिति तन्मते पुच्छस्य ब्रह्मत्वाधिकरणपरतायां तुल्य इत्यर्थः । विकारपक्षे अवयवप्रायपाठबाधश्च भ्भानन्दविकारेति ब्रह्मपुच्छावयवेनौचित्यादिति । प्राचुर्यपक्षे विकारप्रायपाठबाधेन तुल्यम् । व्याख्येयपूजनमात्रमिति भाष्यस्य यथा कथंचन समर्थनमेव पूजनं तदेव पूजनमात्रम् । विकारार्थस्येत्यादि । उपपादितं चैतद्विकारशब्दात्सूत्रे । आमाकृतमित्यादि ४१ ब्र० सू० २० 335