अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 430, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ३४१ अतः सर्वथा तच्छरीरमिति मन्तव्यम् । बाधुकत्वाच्च । इन्द्रियवत्त्वं च श्रूयते । यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्येति । कपेरास आसनम् । आरक्तं तद्यासनं भवतीति । असम्भवतुल्यता च । अतो देहेन्द्रिययोर्विद्यमानत्वाज्जीवः भाष्यप्रकाशः। त्मिकस्तु यः प्रोक्तः सोऽसावेवाधिदैविकः' इति स्मृतौ तस्याध्यात्मिकाभेदकथनादाध्यात्मिकस्य च जीवत्वात् तद्वचनमपि ब्रह्मत्वबाधकमित्यर्थः । आदिपदं, य एषोऽन्तरक्षिणीति, अथाध्यात्ममित्यादिनोक्तानामधिपुरुषधर्माणां संग्रहाय । अक्षिपुरुषविचारोऽपि, स यथायं पुरुष इति श्रुत्यर्थनिर्णयायेति बोध्यम् । मन्तव्यमिति उक्तहेतुभिर्निर्णेयम् । एवं देहत्वसाधनेन देहित्वं साधयित्वेन्द्रियवत्त्वं साधयति इन्द्रियेत्यादि । कप्यासमिति उपवेष्ट- रश्मिः। न्तरं तस्यर्क् च साम च गेष्णौ तस्मादुद्गीथस्तस्मात्त्वेवोद्गीततस हि गाता स एष ये चामुष्मात् पराञ्चो लोकाः तेषां चेष्टे देवकामांनां चेत्यग्रे इत्यधिदैवतमिति पूर्वमुक्तम् । श्रुत्यर्थस्तु तस्योदितिनाम्रो गेष्णौ पृष्ट्याद्युकलक्षणे पर्वणी तस्मात्परमात्मोद्गीथः। यत एतस्योदिन्नाम्रो गाता तस्मादेवोद्गायेति इत्युद्गातेत्युद्गातृनामप्रसिद्धिः स एष उच्चामामुष्मादादित्यात् । किं च लोकाधिष्ठातारो देवास्तेषां कामानां फलानां चेष्टे ईशिता । इत्यधिदैवतमुद्गीथस्वरूपं देवस्येत्यर्थः । य एष इत्यादि । श्रुत्यर्थस्तु अथ भिन्नप्रक्रमे । अस्यां परिदृश्यमानायां । श्रुतिस्तु अथाध्यात्मं वागेवर्गू प्राणः साम तदेतदसाम्यूच्यध्यूढ साम तस्मादृच्यध्यूढ साम गीयते इति । अग्रे वागेव सा प्राणोऽमस्तत्सामेति श्रुत्या सामनिर्वचनम् । इतराणि निर्वचनानि प्रोच्यन्ते चक्षुरेवर्गात्मा साम तदेतदसाम्यूच्यध्यूढ साम तस्मादृच्यध्यूढ साम गीयते। चक्षुरेव सा आत्मामस्तत्साम श्रोत्रमेवर्चनः साम तदेतदसाम्यूच्यध्यूढ साम तस्मादृच्यध्यूढ साम गीयते श्रोत्रमेव सा, मनोमः, तत्सामाथ यदेतदक्ष्णः शुक्लं भाः सैवर्गथः यन्नीलं परः कृष्णं तत्साम तदेतदसाम्यूच्यध्यूढ- साम तस्मादृच्यध्यूढ साम गीयते अथ यदेवैतदक्ष्णः शुक्लं भाः सैव साथ यं नीलं परः कृष्णं तर्दमः तत्सामेति अग्रेऽथ य एषोन्तरक्षिणि पुरुषो दृश्यते सैवर्क् तत्साम तदुत्थं तद्यजुः तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्यरूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नामेति अस्या अर्थः । दृश्यते योगिभिरपि सार्वोत्म्यमुद्गीतैर्गीतैरितिदैर्घैर्मैः पूर्णामत्वं चक्षुष्ठपुरुषस्य । अतीति 'अन्यथैव प्रतीतायाः' इति कारिकोक्तातिदेशः । अतिदेशवाक्यगतं कार्य स यथायमिति श्रुतावैक्त्यम् । नामेति नामनिर्वचनस्य तस्योदिति नाम 'स एष सर्वेभ्यः पाप्मभ्य उदितः' इतिश्रुतौ । सैव पुरुष ऋक् उत्थ्याद्यन्यच्छब्दजातं लिङ्गव्यत्ययस्तु विधेयलिङ्गापेक्षया बोध्यः । तस्यैतस्य चक्षुष्ठपुरुषस्य तदेव रूपं परममुष्यादित्यरूपस्य हिरण्मय इति यौ ऋक्सामरूपौ अमुष्यादित्यपुरुषस्य गेष्णौ पर्वणी तावस्यापि गेष्णौ यदमुष्यादित्यरूपस्य पुरुषस्य नामोदिति उद्गीथ इति च तदेवास्य नामेति । अक्षिपुरुषेति मिथुनत्वशुक्लवादीनामित्यर्थः । नन्वेकयैव निर्वाहे द्वितीयायाः किं प्रयोजनमित्याकाङ्क्षायां तदाहुः अक्षीत्यादि । तथा च स यथायं पुरुष इत्यत्र यच्छब्दार्थपुरःसरं श्रुत्यर्थनिर्णयायेत्यर्थः । तदग्रे स्पष्टीकरिष्यतेऽस्माभिः । फलं स्वस्वाधिकारीत्यस्य व्याख्याने देहित्वमिति आदिलान्तःस्वदेहित्वम् । भाष्ये । अत इत्यादि उक्तवाक्येभ्यः । कश्चिदिति विज्ञानमय इति सर्वोपनिषदि सूर्यविशेषणात् । अधिकारीति आनन्दमय इत्यर्थः । १. तिष्ठतम् । .२. पृष्ठीत्यविति क्षेपः । ३. पुरमः । ४. तद्-अः-मः । 341