अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 429, कुल 2600 में से
संदर्भ में पढ़ेंतत्र सवितरि विद्यमानस्याब्रह्मत्वे फलं नोपपद्यत इति विचारारम्भः। तत्र हिरण्मयशब्दो विकारवाची। केशनखादयश्चोच्यन्ते शरीरधर्माः। 'मृता वा एषा त्वगमेध्या यत् केशश्मश्रू' इति शरीरमन्तरा नोपपद्यते। परिच्छेदश्चाधि- दैविकादिवचनं च बाधकम्। भाष्यप्रकाशः। तच्चैवं भयं विदुषोऽमन्वानस्येत्यनेन मननाभावे भयस्योक्ततया तदापत्तेरेव बीजत्वादित्या- शयेनाहुः तत्र सवितरीत्यादि। तथाचास्य हेतुतागर्भः प्रसङ्गोऽत्र संगतिरित्यर्थः। किं चायं जन्मादिसूत्रस्थविचारः सर्वशास्त्राग्रिमविचारस्य मूलम्। तत्राग्रे, फलमत उपपत्तेरित्यनेन सर्व- फलदाता भगवानवेति वक्तव्यम्। ततोऽग्रे चतुर्थेऽध्याये निषेधमुखेन प्रतीकोपासना, विधि- मुखेनाङ्गोपासनाद्यादित्यादिमितिसूत्रे वक्तव्यास्तत्र मतानंतरोक्तेरीत्या प्रतीकोपासनानामब्रह्म-