अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 436, कुल 2600 में से
संदर्भ में पढ़ेंतस्माद् वेदातिरिक्तेऽप्युपपत्तिपूर्वकं यन्न ब्रह्मधर्मस्तद् ब्रह्मेति मन्तव्यम् । ब्रह्म तु वेदैकसमधिगम्यं यादृशं वेदे प्रतिपाद्यते तादृशमेवेत्यसकृदवोचाम । प्रकृतेऽपि हिरण्मय इत्यत्र यकारलोपश्चान्दसः । अतो न मयट् । हिरण्यशब्द भाष्यप्रकाशः। 'यथा मत्स्यादिरूपाणि धत्ते जह्याद्यथा नटः । भूभारः क्षपितो येन जहौ तच्च कलेवरम्' ॥ इति प्रथमस्कन्धवाक्यात् । अतो यादृशं प्रतीयते तादृशं तद् ब्रह्मैव । येषां पुनर्न मोक्षाधिकारस्तेषां तच्छरीरशङ्कासत इति निश्चयः । एतमेव निर्णयमन्यत्रातिदिशन्ति तस्मा- दित्यादि । ननु किमित्येवं निर्बन्धेन सर्वाकारं निरूप्यते । निर्विशेषमेवोपासकानुग्रहाय मायया शरीरं कल्पयतीत्येव कुतो न कल्प्यते इत्याकाङ्क्षायामाहुः ब्रह्म त्वित्यादि । ननु भवत्वेवं, तथापि प्रकृते हिरण्मय इत्यत्र विकारवाचिनो मयटः प्रयोगः। हिरण्मयशब्दस्य, दाण्डिनायनसूत्रे निपातनाद्विकारत्वसिद्धौ कथं ब्रह्मत्वनिर्णय इत्यत आहुः प्रकृतेऽपीत्यादि । तथाच त्र्यच्त्वेन विकारप्रत्ययाभावाच्चायं निपातः किंत्त्वत्र छान्दस एव यकारलोप इत्यर्थः । ननु पूर्वं स्वरूप- लक्षणविचारे ब्रह्मणः सत्यज्ञानानन्दरूपत्वमेव सिद्धं न हिरण्यरूपत्वमिति हिरण्मयस्याविकार- त्वेऽपि ब्रह्मत्वं वक्तुमशक्यमतः शरीरत्वमेवाङ्गीकार्यमित्यत आहुः हिरण्यशब्द इत्यादि । यद् यज्जनकं तत् तद्गुणकं, यद् यद्गुणकं तत् तदात्मकमिति व्याप्त्योः पूर्वं साधितत्वाद्ब्रह्मा- नन्दसाधकत्वेनानन्दात्मकत्वे विकारभूतस्य लौकिकस्यापि हिरण्यस्य सिद्धे कारणभूतस्याविकारस्या- नन्दात्मकत्वे बाधकाभावाद्धिरण्यशब्द आनन्दवाची । अतः केशश्मश्रुनखाग्रादीणि, तत्सहभूता अनुक्ता अन्येऽपि पुरुषावयवाः कप्यासशब्देन वर्णान्तरस्यापि सूचितत्वात् तत्तद्वर्णविशिष्टा अपि सर्वे आनन्दमया एवेति पुरुषाकारं ब्रह्मस्वरूपमेवेति मन्तव्यम् । अन्यथा, तस्यैव भयं विदुषोऽमन्वानस्येत्युक्तस्य भयस्यापत्तेरित्यर्थः । ननु सूर्यान्तर्वर्ति न ब्रह्मशरीरमित्य- संगतम् । उपबृंहणविरोधात् । अग्निपुराणे, ध्येयः सदेति श्लोके, हिरण्मयवपुरिति शरीरवा- रश्मिः । [