अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 439, कुल 2600 में से
संदर्भ में पढ़ें३५० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ६ सू० २० अन्तर्यामिब्राह्मणे चत्वारोऽर्था उच्यन्ते । सर्वत्र तिष्ठंस्तद्धर्मैर्न संबध्यते । सर्वमुक्तिपरिहाराय स्वधर्मैस्तन्न बध्यते । स्वलीलासिद्ध्यर्थं तच्छरीरमिति । तस्य नियमनं तदर्थमिति । चकाराद्धर्मा उच्यन्ते । भाष्यप्रकाशः । हेत्वन्तरोपन्यास इत्याकाङ्क्षायामाहुः यद्यपीत्यादि । तथाच समानप्रकरणोक्तधर्मान्तरस्यापि ग्राह्यत्वार्थं हेत्वन्तरमित्यर्थः । नन्वत्र भेदव्यपदेशमात्रेण कथं परमात्मलाभ इत्यत आहुः अन्तर्यामीत्यादि । तदिति सामान्ये नपुंसकम् । अभिमानीत्यर्थः । अत्र हि जडाज्जीवाच्च भिन्नत्वेनान्तर्यामी प्रतिपाद्यते । तत्र, य आदित्ये तिष्ठन्नादित्यादन्तर इति जडं मण्डलमा- धारत्वेन निर्दिश्य ततोऽन्तरत्वकथनात् ततो भेदो बोधितः । तेन तद्धर्मैर्न संबध्यत इति बोधितम् । तत आदित्यादन्तरत्वं तदभिमानिनो जीवस्याप्यस्तीति ततोऽपि भेदबोधनाय, यमादित्यो न वेदेति तदभिमान्यज्ञेयत्वकथनेनाभिमानिधर्मैर्न संबध्यत इत्याह । तथा यद्यभि- मानी तं जानीयान्मुक्तः स्यात् । अतस्तदभावाय स्वासाधारणैर्ज्ञानापहतपाप्मत्वादिभिर्धर्मैः कर्तृभिस्तद् आधारभूतम् अभिमानी वस्तु न बध्यते, न व्याप्यते । 'यदादित्यगतं तेजो जगद्भासयतेऽखिलम्' । 'सैषा त्रय्येव विद्या तपति' इति स्मृतिश्रुत्युक्तधर्मैर्मण्डल एव रश्मिः । वाक्यत्वादिति स्वार्थबोधे समासयोर्हिरण्मयपदघटितान्तर्यामिपदघटितवाक्ययोर्द्वन्द्वप्रयोगात्परस्पर- साकाङ्क्षयोरेकवाक्यतया द्वन्द्वप्रयोगिमीमांसको ज्ञानाङ्गमित्येवमेकवाक्यत्वात् । द्वन्द्वं ब्रह्मात्मरूपम् । 'स्वरूपं द्विविधं चैव सगुणं निर्गुणं तथा' इतिश्रुतेः । ननु साकारं ब्रह्मेति वक्तव्ये सर्वत्रेत्येवमिति च कुतः । इति चेच्छृणु सर्वत्रेत्यवश्यं वक्तव्यम् । एकत्र सिद्धः शास्त्रार्थोऽपरत्रापि तथेति न्यायात् अन्यथैकत्रान्यथापरत्रान्यथेति शास्त्रार्थो भिद्येत । एवेत्यपि वक्तव्यमुक्तश्रुतेः । पुरुषविधब्राह्मणाच्च । 'अहं सर्वस्य प्रभवः' 'अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तः' इति गीता । 'समान एवं चाभेदात्' इति वैयाससूत्रम् । 'अपश्यत् पुरुषं पूर्णम्' इति समाधिभाषा तदेकवाक्य- तया । द्वितीयस्कन्धे नवमाध्याये ज्ञानस्य कथनात् ब्रह्मणे चतुर्भुजरूपप्रदर्शनाच्च । तच्च निर्गुणपूर्वक- मिति सुष्ठूक्तं सर्वत्रेति एवेति च ध्येयम् । प्रकृते । भेदव्येति हेतुना । परमात्मलाभः भावप्रधान- परमात्मशब्दः तेनान्यद् ब्रह्मसूत्रान्तरादनुवृत्तं परमात्मेत्युच्यतेन्यपक्षग्रन्थत्वात् तस्य लाभ इत्यर्थः । तेनात्र वक्ष्यमाणसाध्यपक्षयोर्न विरोधोत्र । अभिमानिधर्मैरिति तद्धर्मैरपरोक्षत्त्वादिभिः । सर्व- मुक्तीत्यादिभाष्यं विवरिष्यन्त आहुः तथा यदीत्यादि । मुक्त इति । ज्ञानत्वेन मुक्तित्वेन कार्यकारण- भावादिति भावः । बध्यत इति बध बन्धने इति धातोः कर्मणि प्रत्यये रूपम् । बन्धनं चाप्रीतयनुकूलो व्यापारः सा च प्रकृते व्यापनरूपस्वरूपलक्षिका । धातूनामनेकार्थत्वमित्याशयेनाहुः व्याप्यत इति । यदेत्यादि उत्तरार्धं तु 'यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्' इति । सैषेति तैत्तिरीये 'आदित्यो वा एष एतन्मण्डलं तपति तत्र ताः ऋचस्तदृचां मण्डलं स ऋचां लोको अथ य एष एतस्मिन् मण्डलेऽर्चिर्दीप्यते तानि सामानि स साम्नां लोको अथ य एष एतस्मिन् मण्डलेऽर्चिषि पुरुषस्तानि यजूंषि स यजुषां मण्डलं स यजुषां लोकः । सैषा त्रय्येव विद्या तपति य एषोन्तरादित्ये हिरण्मयः पुरुषः' इति श्रूयते । स्मृतिश्रुतीत्यादि धर्मद्विष्वनियमात् साधुः प्रयोगः । अन्यथा 'अभ्यर्हितं 350