अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 438, कुल 2600 में से
संदर्भ में पढ़ेंभेदव्यपदेशाच्चान्यः ॥ २० ॥ इतोऽपि सूर्यमण्डलस्थः परमात्मा । भेदव्यपदेशात् । 'य आदित्ये तिष्ठन्ना- दित्यादन्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदित्यमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः' इति श्रुत्यन्तरे आधिदैविकं सूर्यमण्डलाभिमानिभ्यां भेदेन निर्दिष्टम् । यद्यपि तत्राकारो न श्रूयते, तथापि हिरण्मयवाक्येनैकवाक्य- त्वात् सर्वत्र साकारमेव ब्रह्मेति मन्तव्यम् । भाष्यप्रकाशः । तथापि शुद्धसत्त्वात्मकत्वं त्रिगुणात्मकत्वं वा तु सर्वथाङ्गीकार्यम् । तेन सह संबन्धश्चाभिमान एव वाच्यः । तथा सत्यभिमान्ता जीव इति तापनीये श्रावितस्य जीवसङ्घस्य तत्र सत्त्वाज्जीवत्व- मेव । यदि च नियन्तृत्वं तदाऽन्यस्याभिमानिनस्तत्र सत्त्वाद् ब्रह्मशरीरत्वाभावः । यदिच संबन्धान्तरं, तदापि । 'स एव वासुदेवोऽयं पुरुषः प्रोच्यते बुधैः । प्रकृतिस्पर्शराहित्यात् स्वातन्त्र्याद् वैभवादपि' ॥ इति नारसिंहवाक्यविरोध इति शरीराङ्गीकारे जीवत्वापत्तिरनिवार्येति तदभावाय निर्बन्ध इत्यर्थः ॥ १९ ॥ भेदव्यपदेशाच्चान्यः ॥ २० ॥ ननु पूर्वसूत्रोक्तेनैव हेतुना सिद्धे ब्रह्मत्वे किमिति रश्मिः । मायाभिः पुरुरूपः चाक्षुषः शाब्दोऽनुमित उपमित इत्येव मीयते प्राप्यते इति पदसंबन्धः । भगवतो मायेति संबन्धविशेषनिवेशश्चायं पदसंबन्धस्तस्मादित्यर्थः । एतेन शंकरभाष्यद्विक्षेपे दर्शिते स्मरणं समा- हितम् । त्रिगुणेत्यादि त्रिगुणमुपक्रम्य 'अभ्यपद्यत लीलया' इतिवाक्यात् । अत्र सूत्रे उत्तरसूत्रादन्य इति साध्यानुकर्षादधिकारसूत्राद्ब्रह्म इत्यनुवर्तनाद्ब्रह्म न पक्षहेतुनिर्देशो दोषायेति ज्ञेयम् । अत एव रामानुजभाष्यं 'अन्तरादित्ये अन्तरक्षिणि च यः पुरुषः प्रतीयते स जीवादन्यः परमात्मैव कुतः तद्धर्मोपदेशादिति' । अस्मन्मतेपि परमात्मान्यपदार्थ इति विशेषो न । नियन्तृत्वमिति जीव- शरीरयोः संबन्धः अथान्तर्यामिब्राह्मणे । ब्रह्मेति किं तु नियन्तृब्रह्मणोऽन्यस्याभिमानिनः शरीरत्वं स्यादिति भावः । तस्मिन् सत्यन्तर्यामिब्राह्मणविरोधः । एवं चाभिमाननियन्तृत्वान्यतरसंबन्धे विवक्षिते त्याहुः यदि चेति । संबन्धान्तरत्वमभिमाननियन्तृत्वान्यतरत्वं तदापि संयोगसंबन्धासंग्रहाद्वाक्यविरोध इत्याहुः तदापीति । वसुदेवे संक्रान्तः संयोगसंबन्धेन वर्तमानो वासुदेवः अयं पुरुषो जीवः । तथा च पुरो जीवस्य च संयोगसंबन्धः । विद्याविद्यावच्छिन्नजीवस्य वासुदेवाभेदसंभवमालोच्याह प्रकृतीति । अभिमानो मिथ्येति प्रकृतिः । स्पर्शोभिमानाख्यस्तस्य राहित्यात् । नियन्तृत्वात् स्वातन्त्र्यं तस्मात् । वैभवं वैभव्यं तत्त्वमसीतिवद्वासुदेवोयं पुरुष इति तस्मादपि ॥ १९ ॥ भेदव्यपदेशाच्चान्यः ॥ २० ॥ भाष्ये । आधिदैविकमिति आदित्ये तिष्ठन् इत्याद्यु- क्तादित्ये स्थित्यादिमन्तं निर्दिष्टं जानीयादिति शेषः । सूर्येत्यादि सूर्यमण्डलं जडम् । तदभिमानी चेतनः भेदेत्यनेन ज्ञानानुकूलव्यापारवत्त्वबोधनपुरस्कारेण नेति नञा निषेधात् । ज्ञानवत्त्वसाधारे जडे बाधादन्यार्थमित्यर्थः । प्रकृते । समानेति समानप्रकरणं ब्रह्मप्रकरणेनोद्गीथप्रकरणं समानं तदुक्तधर्मांन्तरं परमात्मत्वं तस्य । परमात्मत्वमत्रोद्गीथत्वं तद्भिन्नोक्तधर्मवत्त्वम् भाष्ये । एक- 349