अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 447, कुल 2600 में से
संदर्भ में पढ़ें३५८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ६ सू० २० भाष्यप्रकाशः । इति मात्स्यादिषु हिरण्मयशब्दाद्धिरण्यगर्भ एवात्रोपास्यत्वेन गम्यते । किंञ्च, ध्येयः सदेति- रूपयोः श्रुतिस्मृत्योर्नारायणाख्यहिरण्मयस्य सूर्यमण्डल उपासनासिद्धेस्तदेकवाक्यतया हिरण्य- श्मश्रुत्वादिश्रुतेरपि नारायणपरत्वमेव, न परमेश्वरपरत्वम् । अपिच । यस्मिन् वाक्ये रूपसंस्थाना- दिकं श्रूयते, तत्र तत्तद्देवतापरिग्रह एवौत्सर्गिकः । असाधारण्यात् । ब्रह्मणश्च स्वतो नीरूपताया, 'अरूपवदेव हि तत्प्रधानत्वात्' इत्यत्र वक्ष्यमाणत्वात् । क्वचित्तु प्रकरणादिबलाद्देवादीन् विहाय देवादिरूपैरेवारूप ईश्वर उपास्य इष्यते । न चेह तथा बलवत् प्रकरणादिकमस्ति । अन्यथा देव- तोपासनमात्रोच्छेदापत्तेः । सर्वत्रैव ब्रह्मोपासनसंभवात् । लीलाविग्रहोऽपि विष्ण्वाद