भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 448, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 448

भाष्यप्रकाशः । इति विधिप्रतिषेधयोर्व्यवहारनियामकार्थत्वबोधके वाक्ये कर्ममात्रस्य जात्यशुद्धत्वबोधनेन तदङ्गजे पुण्यरुपेऽप्यशुद्धिज्ञानस्य दुरपोहत्वेन सर्वस्यैव पाप्मरूपत्वात् । अन्यथा पुण्यफल- स्यापि मुमुक्षुपादेयत्वापत्तेः । अतो धर्मान्तरानुक्तावपि न वाक्यस्य जीवपरत्वं शक्यशङ्कम् । आदित्यान्तस्तु न हिरण्यगर्भादिः । मात्स्ये परं धामोद्दिश्य तस्य पूषकत्वकथनेन तत्र परब्रह्मण एवाभिप्रेतत्वनिश्चयात् । ध्येयः सदेति वाक्येऽपि परमेश्वर एवोच्यते । 'नारायणः शिवो विष्णुः शंकरः परमेश्वरः । एतैस्तु नामभिर्ब्रह्म परं प्रोक्तं सनातनम्' ॥ इति वाराहपुराणवाक्येन तस्य ब्रह्मनामत्वात् । नीरूपेश्वरवादस्त्वेतदधिकरणव्याख्यान एव निरस्तत्वात् । नचैवं, 'यो देवानां नामधा एक एव', 'एकं सद्विप्रा बहुधा वदन्ति' इत्यादि- श्रुत्या, 'हव्यकव्यभुगेकस्त्वं पितृदेवस्वरूपधृक्' इत्यादिस्मृत्या च सर्वत्र ब्रह्मोपासनायाः शक्य- वचनत्वेन देवतामात्रोपासनोच्छेद इति शङ्क्यम् । ज्ञानपूर्वकोपासकान् प्रति तथेष्टत्वात् । अज्ञान् प्रति तु तदभावात् । 'येऽप्यन्यदेवताभक्ता' इत्यादिभगवद्गीतावाक्यसंदर्भेण तथा निश्चयात् । स्वरूपे विग्रहस्तु नास्त्येव । आकारस्तु स्वरूपात्मक एवेत्यसकृदुपपादितं च । तेन 'अप्राणो ह्यमनाः शुभ्रः' इत्यादिश्रुतीनां न विरोधः । अरूपवदेवेति सूत्रे तु रूपवद्भिन्नमेवोच्यते, न तु रूपरहितम् । नञः पर्युदासार्थकत्वात् । अन्यथा त्वरूपमित्येतावतापि रूपाभावबोधन- सिद्धेर्मतुब्बैयर्थ्यस्य दुर्वारत्वात् । अतो, 'न तस्य कार्यं करणं च' इत्यत्र संकोच एतदेव सूत्रं प्रमाणमित्यसंकोच एव प्रमाणाभावः । श्रुतयस्तूक्ता वक्ष्यन्ते च । उक्तं विष्णुपुराणवाक्यं रश्मिः । स्वजनेषु च' इत्यादिना एकविंशे वेदस्य प्रवृत्तिपरत्वनिषेधात् इति श्रीधर्यनुसारेण 'गुणदोषविधानेन सङ्गानां त्याजनेच्छया' इत्यर्धेन सह श्लोकान्वयः । मुमुक्ष्विति आदिशब्देन पुण्यफलार्थं प्रवृत्तिः । धर्मान्तरस्येत्युक्तं दूषयन्ति अतो धर्म इति । धाम्नः परमिति विशेषणान्तरलब्धमर्थमाहुः परं धामे- त्यादि । तत्रेति परधामपूषणि । एवकारो हिरण्यगर्भादिव्यवच्छेदकः । पूषकत्वस्य ब्रह्मलिङ्गत्वात् । देवतामात्रेति देवतैव देवतामात्रं तस्योपासनाया उच्छेद इत्यर्थः । तस्येति उच्छेदस्य । अज्ञानिति पूर्ववाक्याज्ञानित्यर्थः । तथेत्यादि 'तेपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्' इति तत्र कथनादिति भावः । पर्युदासेति 'पर्युदासः सदृग्ग्राही' इति रूपवद्भिन्नत्वे सति रूपवत्सदृशेत्यर्थः । अन्यथेति नञः प्रसज्यप्रतिषेधकत्वप्रकारकत्वे तु । रूपवदभावापेक्षया रूपात्यन्ताभावस्य लघुत्वात् । अत इति पर्युदासाश्रयणादेव संकोचे लौकिककार्यादौ । एतदिति पर्युदासार्थकनञ्- घटितमरूपवत्सूत्रव्याख्यासंकोचः पर्युदासं विना यथाश्रुतव्याख्यानं संकोचे । तथा च कार्यताव- च्छिन्नप्रतियोगिताकाभावः करणतावच्छिन्नप्रतियोगिताकाभावश्च विधीयते इति न श्रुत्यर्थः । किं तु लौकिककार्यत्वेत्यादिरूपा लौकिककरणत्वेत्यादिरर्थः । सूत्रानुसारेण निरूप्य श्रुत्याकाङ्क्षामपनेतुम् । श्रुतय इत्यादि 'सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्' इत्याद्याः ।


१. शक्यापत्तिः । २. तत्रपरंह्याद्ये पूषणेति । ४६ ब्र० सू० २० 359