भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 454, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 454

वाक्यार्थः सर्वगतित्वादिः । तद् वाक्यार्थान्यथानुपपत्त्या आकाशपदार्थो ब्रह्मेति सर्वशब्दवाच्यत्वान्न लक्षणा । मुख्यत्वाच्च । यावन्मुख्यपरत्वं संभवति तावन्न कस्यापि वेदान्तस्यापरब्रह्मपरत्वमिति मर्यादा । तस्माद्, यदेष आकाश आनन्दो न स्यादितिवदत्राप्याकाशो ब्रह्मैवेति सिद्धम् ॥ २१ ॥ इति प्रथमाध्याये प्रथमपादे सप्तमं तल्लिङ्गाधिकरणम् ॥ ७ ॥

भाष्यप्रकाशः । वदता परायणपदेन सर्वगतित्वं प्रतिपाद्यत इति । तथा आदिपदेन सर्वज्यायस्त्वं परोवरीय- स्त्वमनन्तत्वं च । तत् तस्मात् कारणाद् वाक्यार्थान्यथानुपपत्तिरूपोपपत्त्यापि, आकाशपदस्य ब्रह्मण्येव तात्पर्यमित्यर्थः । सर्वशब्दवाच्यत्वादित्यादिग्रन्थस्तूत्तानार्थः । एवमत्र श्रुतिसामर्थ्यरूपेण लिङ्गेन उपपत्तिरूपेण तात्पर्यलिङ्गेन चेति द्विधा व्याख्यातम् ।

रश्मिः । भाष्ये आकाशः परायणमित