अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 455, कुल 2600 में से
संदर्भ में पढ़ें३६६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ७ सू० २१ भाष्यप्रकाशः। अन्ये तु, तल्लिङ्गादित्यस्य, ब्रह्मसाधारणधर्मादित्यर्थं वदन्ति । केचिदेवं सूत्रयन्ति । तन्मतेऽधिकरणत्रयवैयर्थ्यम् । तद्धर्मोपदेशाधिकरणेनैव गतार्थत्वादिति । विज्ञानभिक्षुस्तु, काण्वचतुर्थाध्याये सुषुप्तं जीवमुपक्रम्य पठ्यते, 'तदेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते' इत्यादि । तत्र किं भूताका- शस्तद्देवता वा ब्रह्म वोच्यत इति संशयः । तद्बीजं तु उपक्रमोपसंहारयोर्ब्रह्मवाचकब्रह्मात्मादि- पदवन्मुख्यवाक्ये भूताकाशादिवाचकस्याकाशपदस्य श्रवणम् । अन्यतरस्य गौणत्वे नियामका- भावस्त्रयाणामपि स्वापाधारत्वाद्विशेषश्च । निर्णयस्तु, आकाशो ब्रह्मैवेति । हेतुस्तु तल्लिङ्गात् । लिङ्गानि तु,