अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 456, कुल 2600 में से
संदर्भ में पढ़ेंयहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्तिशः लिप्यन्तरण दिया गया है:
भाष्यप्रकाश-रश्मि-परिवृंहितम् । [३६७] भाष्यप्रकाशः । 'चैतन्यापेक्षया प्रोक्तं व्योमादि सकलं जगत् । असत्यह्यं सत्यं तु कुम्भकुण्डाद्यपेक्षया' ॥ इत्युक्तत्वाच्च । अतः शब्दसाम्येऽपि ब्रह्मलिङ्गाद् ब्रह्मैवाकाशशब्दार्थः । आकाशशब्दश्च ब्रह्मणि रूपकविधया विभुत्वनिर्लेपत्वादिगुणलाभाय, मुखे चन्द्रवच्छ्रुत्या प्रयुक्तः । अत एव, 'परमे व्योमन् प्रतिष्ठिता' इत्यादिषु श्रुतिष्वाकाशरूपेण ब्रह्म निर्दिश्यते । नानार्थताया, गङ्गायां घोष इतिवल्लक्षणायाश्चायुक्तत्वादिति । एवं प्राणज्योतिरादयः शब्दा अपि जीवनत्वप्रकाशन- त्वादिप्रतिपादनाय रूपकत्वेनैव व्याख्येयाः । वस्तुतस्त्वाकाशप्राणज्योतिरादयः शब्दा आकाशादिभावापन्नब्रह्मपरा एवैतेषु ब्रह्मवाक्येषु भवन्ति । केवलब्रह्मपरत्वे सत्याकाशादि- लिङ्गाद्यनुपपत्तेः । यत्तु छान्दोग्यवाक्यमधुनेका इहोदाहरन्ति, 'अस्य लोकस्य का गतिः' इत्यादि । तन्न । प्रकरणादिशून्यात् केवललिङ्गाच्छ्रुतेर्बलवत्त्वस्य पूर्वमीमांसासूत्रादेवावधार- णात् । तत्र च श्रुतिप्रकरणयोरभावात् । किंच । प्रश्ने, अस्य लोकस्येत्यनेन भूर्लोकजना एवोक्ता इति प्रत्युत्तरे भूतानीत्युक्तत्वात् सर्वाणि भूतानीति ब्रह्मलिङ्गं न भवति । आकाशसाधारण्यात् । आकाशाद् वृष्टिद्वारेषां भूर्लोकस्थानां सृष्टिस्थितिसंहारादित्याह । तदसङ्गततमम् । सूत्रविरोधात् । सूत्रे केवलस्य लिङ्गस्यैव हेतुत्वेनोक्तत्वात् । स्वरीत्या रश्मिः । इति गजेन्द्रस्तुतौ तु स्पष्टम् । उक्तत्वाच्चेति । तथा च कुम्भकुण्डादि सत्यस्य सत्यमिति श्रुत्यर्थः फलितः । श्रुतावाकाशपदोक्तेस्तात्पर्यमाहाचार्यो विज्ञानाः आकाशशब्देत्यादि । रूपकेति अनुभयोक्तिरूपताद्रूप्यरूपकं यथा 'अस्या मुखेन्दुना लब्धे नेत्रानन्दे किमिन्दुना' इत्यत्रानुभयोक्तिताद्रूप्यन्यूनताद्रूप्याधिकताद्रूप्यभेदेन ताद्रूप्यरूपकस्य त्रैविध्यम् । 'विषय्यभेदाताद्रूप्यरञ्जनं विषयस्य यत् । रूपकं तन्त्रिधाधिक्यन्यूनत्वानुभयोक्तिभिः' ॥ इति तल्लक्षणात् । विषयिणः उपमानस्य पद्मादेरभेदेन ताद्रूप्येण च विषयस्योपमेयस्य रञ्जनं रूपकमित्यर्थः । यद्वा । अभेदरूपकं वा तत् । 'अयं हि धूर्जटिः साक्षाद्येन दग्धाः पुरः क्षणात्' इत्यत्र यथा । विभुत्वेत्यादि तथा च गौणीवृत्तिरिति भावः । प्रतिष्ठितेति 'सैषा भार्गवी वारुणी विद्या परमे व्योम्नि प्रतिष्ठिता' इत्यर्थः । ननु दृष्टेर्वैविध्याल्लक्षणयैव निर्वाहे किं गौण्येति चेत् तर्कपादीयगौण्युपपादकयुक्तिहृदय आह लक्षणाया इत्यादि । एवं प्राणेति 'प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रम्' इत्यादिबृहदारण्यकादप्रेसनाधिकरणेषु प्राणादयो व्याख्येया इत्यर्थः । एवं विभागाद्वैतप्राप्त्याऽविभागाद्वैताय पक्षान्तरमाह भगवान् वस्तुतस्त्वित्यादि । आकाशादीत्यादि- पदेन प्राणज्योतिरादयः तेनायं भगवानाचार्यः तावद्रूपचरणमाकाशभावापन्नब्रह्मकर्तृकं तादृश- ब्रह्मणः सकाशाद्धेति मन्यते । तेन तल्लिङ्गादित्यस्याकाशभावापन्नब्रह्मलिङ्गादित्यर्थः पर्यवसितः । प्रकरणेत्यादि 'उभयाकाङ्क्षा प्रकरणम्' 'निरपेक्षो रवः श्रुतिः' इति पूर्वमीमांसासूत्रं पूर्वं निरूक्तम् । तन्नेत्यस्य छान्दोग्यीयवाक्ये इत्यर्थः । वृष्टिद्वारेति अयमाचार्यो मन्यते । ननु सत्यं व्याससूत्रेण जैमिनिसूत्रदौर्बल्यं तथापि श्रुतिलिङ्गादय इत्यादिभाष्यप्रामाण्यात् त इह तथैवोपादेया इतिलिङ्गा- ४७ ब्र० सू० सू० १० .367