भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 457, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 457

३६८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ७ सू० २२ भाष्यप्रकाशः। तु, श्रुतिलिङ्गप्रकरणैरिति पाठापाताच्छ्रुतिविरोधाच्च । श्रुतौ सामाधदोलोकान्तगतिज्ञानवतः शालावत्यस्यैतल्लोकगतिप्रश्नेन सामाद्येतल्लोकान्तस्य परमाश्नये परमोपजीव्ये वा प्रश्नपर्य- वसानाद्, तादृशत्वस्य चाकाशेऽसंभवात् । अतश्छान्दोग्यवाक्यस्याविषयत्वकथनमसङ्गतम् । अन्येषामानुकनिकत्वकथनमाप तथा । स्वस्य सर्वार्वाचीनत्वात् । प्राचीनवृत्त्यादीनामना- श्रयणाच्च । आकाशशब्दस्य भूताकाशतद्देवतातद्ब्रह्मसु साधारण्यकथनमाप तथा । ब्रह्मणि रूढकविधया प्रयोगाङ्गीकारेण गौण्या वा निरूढलक्षणया वाऽऽदराद् ब्रह्मवाचकत्वस्याभावेन रश्मिः। पेक्षया सिद्धान्तेपि ह्याकाशश्रुतिर्बलवत्तरेति चेत्तत्राहुः श्रुतीत्यादि । सामादीति का साम्नो गतिरिति स्वर इति होवाचेत्यारभ्य अमुष्य लोकस्य का गतिरित्ययं लोक इति होवाचेत्यन्तया श्रुत्येत्यर्थः । असं भवादिति आश्रयमात्रे उपजीव्यमात्रे तथा संभवः। आकाशे तु 'आकाशाद्वायुः'इति श्रुतेः वायूपजी- व्यत्वं तथाचाकाशादिभावापन्नब्रह्मणः पराश्रयत्वपरमोपजीव्यत्वाभ्यामस्पर्शाद्ब्रह्मविषयत्वमसंभवीति भावः । ब्रह्माधिकारात् । एवं चैतत्सिद्धं भाष्यविरोधस्तदा स्याद्यदीदं लिङ्गतात्पर्यवृत्तिवेलामत्तिक्राम- च्छुतिमत्तिक्रामेद्बलवन्मतो लिङ्गं बलीयः श्रुत्यपेक्षयात्रेति श्रुतिलिङ्गेति सूत्रं तु तात्पर्यवृत्तवेलायां प्रति- बन्धकामावात् परैरभिधादिवृत्त्या प्रवर्तितमिति ज्ञेयम् । तथा च लिङ्गस्य बलीयस्त्वे सूत्रं प्रतिबन्धकं तात्पर्यं तु सूत्रप्रतिबन्धकमुत्तेजकं व्याससूत्रम् । संबन्धात् । अतोऽसंगतमित्यत्र तमपि योज्यः । अत इति व्याससूत्रविरोधादिदूषणेभ्य इत्यर्थः । ननु प्राचीनवृत्तिकल्पगीतास्कन्धाद्यनुसारतमस्माकं सर्वेभ्यः पूर्वत्वं व्याख्यानप्रयुक्तमपि चाधुनिकत्वं लोकरञ्जकत्वं लाक्षणिकमत्रेति नायं हेतुरिति शङ्कायामाहुः प्राचीनेत्यादि । किं च लोकरञ्जकत्वं तदा स्यात् यदि तदुत्तरमस्मद्भाष्ये विषयत्वं तस्य वाक्यस्य नाहतं भवेदिति । न चासाप्रसिद्धत्वात्तदज्ञानादादृतत्वमिति शङ्क्यम् 'अनागतमतीतं च' इत्यादिवाक्यात्। गौण्येत्यादि द्वितीयाध्याये गौण्यसंभवादिति सूत्रे आचार्येण भगवता गौणीत्वेन गौण्या पदार्थ उक्तः तत्काव्यप्रकाशे लक्षणात्वेन वर्णितस्य भेदाह्ययोदशोोपवर्णिताः । उपादानलक्षणा कुन्ताः प्रविशन्तीत्यत्र । लक्षणलक्षणा गङ्गायां घोष इत्यादी । शुद्धा सारोपालक्षणा आयुघृतमित्यादौ । गौणी सारोपालक्षणा गौर्वाहीक इत्यादी । शुद्धसाध्यवसोनीलक्षणा आयुर्वेदम् । गौणी साध्यवसाना- लक्षणा गौरयमित्यादौ । एवं षड्विधा प्रयोजनवती । आसां व्यङ्गोत्थापनफलकतया नियमेन तासां सव्यङ्गत्वमेव । तच्च व्यङ्ग्यं द्विविधम् । गूढमगूढं चेति । काव्यार्थभावनापरिपक्वबुद्धिविभवमात्रवेद्यं गूढम् । अनत्यन्तसहृदयैरपि झटिति ग्राह्यमगूढम् । यथा 'मुखं विकसितस्मितम्' इति 'श्रीपरिचयात्' इति चोदाहरणे । एवं द्वादशधा प्रयोजनवती लक्षणा । निरूढलक्षणा कर्मणि कुशला इत्यादौ । सैकविधैव । एवं च गौर्वाहीक इतिवत् आकाशो ब्रह्मेति गौण्या सारोपेत्यर्थः । ननु सारोपत्वं केन प्रकारेणेति चेद्धन्धगौरवभीतिकातुज्ञया तत एवं विदांकुर्वन्तु विद्वांसः । तथा च गोसदृशो वाहीकः गोनिष्ठाङ्गत्वादिगुणविशिष्ट इतिवदाकाशसदृशं ब्रह्माकाशनिष्ठस्वाषाधारत्त्वादिगुणविशिष्टमिति तन्मतेऽर्थः। अत्र सादृश्यातिरिक्त कार्यकारणभावादिसंबन्धानार्माववक्षातो नो शुद्धा सारोपा संबन्धान्तरेण सारोपा शुद्धा भवतीति । तथा च भास्कराचार्यभाष्यम् । सर्वमभिव्याप्य प्रकाशते इत्याकाशः तत्सादृश्याद्वेति द्वितीयवेत्यस्य प्रयोजनं पूर्वतन्त्रे कचित्प्रसिद्धम् । यथा 'सेवायां वा कथायां वा' इत्यत्र श्रीमदाचा- यौक्तौ । पूर्वोक्तेऽर्थे तज्जन्मादिसूत्रभाष्यविरोधमाकल्याहुः । किं च । यथा गौरित्यादावङ्गत्वोपतिक्षय एव प्रयोजनमेवं प्रकृते स्वापाधारत्वातिशय एव प्रयोजनं वाच्यं तस्याभावादाहुः निरूढेत्यादि । कर्मणि 368