भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 459, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 459

३७० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ८ सू० २३ नन्वधिकरणानां न्यायरूपत्वात् सर्वत्र गमिष्यति, किमित्यतिदिश्यत इति । उच्यते । प्राणस्य मुख्यस्यापि सर्वभूतसंवेशनं स्वापादौ श्रुतावेवोपपाद्यते यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येतीत्यादिना । तन्न यथा प्राणविद्याया न ब्रह्मपरत्वमेवमेवास्यापि न ब्रह्मपरत्वमिति, न न्यायेन प्राप्नोति । अतोऽति- भाष्यप्रकाशः। प्रकरणापेक्षया लिङ्गस्य बलिष्ठत्वात् । पुराणस्य चान्यत्र सावकाशत्वेनात्रानुपबृंहणतायामपि विपरीतबलाबलभावस्याशक्यकल्पनत्वादिति । अत्राधिकरणवैयर्थ्यमाशङ्कते नन्वित्यादि । समाधत्ते उच्यत इत्यादि । उपपाद्यत इति धर्मत्वेनोपपाद्यते । तन्नेत्यादि तत्र प्राण- विद्यावाक्ये पुरुषस्वापप्रयुक्तं भूतसंवेशनं, तत्प्रबोधप्रयुक्तं च भूताधिजननमुच्यते, न तु