भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 460, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 460

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३७१ दिशति । अनेन चायमतिरिक्तो न्याय आपादितः । यत्रैव प्रकरणे ब्रह्मपरत्वे कल्प्यमाने न किंचिद् बाधकं तत्रैव ब्रह्मपरत्वं कल्पनीयमिति, न त्वन्यस्मिन् संभवे तत्परत्वमिति । अत एव तल्लिङ्गात् प्राणशब्दवाच्यं ब्रह्मेति ॥ २२ ॥ इति प्रथमाध्याये प्रथमपादेऽष्टममतिदेशाधिकरणम् ॥ ८ ॥ भाष्यप्रकाशः । अनेनेत्यादि । न त्वन्यस्मिन् संभव इति संभवान्तरे सति तु नेत्यर्थः । सिद्धमाहुः अत एवेत्यादि । बाधकशन्यात् पूर्वोक्तलिङ्गाच्चेत्यर्थः । नच, 'प्राणं तर्हि वागप्येति प्राणञ्चक्षुः प्राणं श्रोत्रं प्राणं मनो यदा प्रबुध्यते प्राणादेवाधि पुनर्जायन्ते' इत्यत्रेन्द्रियसंवेशनमुच्यते, न भूतसंवेशनमिति विषयभेदात् कथमस्य साधारणत्वशङ्केति वाच्यम् । 'दीपश्चक्षुस्तथा रूपं ज्योतिषो