अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 469, कुल 2600 में से
संदर्भ में पढ़ेंइति चतुर्थपादस्य षष्ठविधत्वप्रतिपादनात् । अतश्चतुर्थपादे पञ्चपुरुषास्ततः परो दिवोज्योतिः षष्ठस्तस्यैव सर्वत्र दीप्यमानत्वं निरूप्य तदेवान्तःपुरुषे उपसंहरति । तस्मात् पूर्वं 'त्रिपादस्याऽमृतं दिवि' इत्युक्तत्वाद्यस्य त्रिपात्संबन्धि अमृतमुपरितनलोकेष्विति । अतोऽत्र चतुर्थः पादो निरूप्यत इति सिद्धम् । अतः पादानां ब्रह्मधर्मत्वाज्ज्योतिषो ब्रह्मत्वमिति ।
भाष्यप्रकाशः । सूक्तमिति प्रतिज्ञाय ऋचा विवृतम् । यावान् सर्वभूतात्मकत्वादिरूपोऽर्थः पूर्वमुक्तस्तावान् अस्य गायत्रीनाम्नः पुरुषस्य महिमा माहात्म्यं विभूतिः । तत उक्तरूपान्महिम्नः पुरुषो ज्यायान् अधिकः । पूर्वोक्तं कथमस्य महिमेत्यत आह पादस्येत्यादि । तथा चोक्तरूपस्य सर्वसैतत्पादरूपत्वान्महिमत्वम् । तत एव च पुरुषस्य ज्यायस्त्वम् । एतेन पदशब्दार्थोऽपि निर्णी