अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 470, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ३८१ भाष्यप्रकाशः । मित्यादिना । ततः कास्तद्विधा इत्यपेक्षायां तस्य ह वा एतस्य हृदयस्येत्यादिना पञ्चप्राणा- निन्द्रियाणि तद्देवांश्च द्वारपालकोटौ निवेशयति । षष्ठेन ज्योतिषा च षट्संख्यां पूरयति । तेनैते षडपि विधाः । एतद्व्यतिरिक्तः प्राणविद्यायां, प्राणो हि पिता प्राणो मातेति प्रसिद्धो जीवात्मकः प्राणः पाद इति सिद्ध्यति । सोऽपि न विविक्तः किंतु शरीरविशिष्ट इति तद्वि- शिष्टानां जीवानां पादत्वं, तस्य च मुख्यं स्थानं हृदयं, विधाश्च तत्रैव भूयस्य इति हृदयमपि पाद एव निवेश्यते । ज्योतिश्चात्र हार्दमेव यदाकाशशब्देनोक्तं, हृद्यन्तर्ज्योतिरिति श्रुत्यन्तराच्च । अतः पूर्वोक्तरीत्या एकवाक्यत्वं निष्प्रत्यूहमित्यर्थः । यत्तु केचित् पुरःस्फूर्तिकमालम्ब्य गायत्र्या भूतपृथिवीशरीरहृदयभेदेन चतुष्पात्त्वं, तस्या वाग्रूपत्वकथनाद् हृदये प्राणानां चोक्तत्वात् तदुभयसहितानि तानि भूतानि संख्यायां निवेश्य तैः षड्भिर्गायत्र्याः षड्विधत्वं व्याख्याय, इदं यावदुक्तं तावानस्य महिमा विकार- स्ततो ज्यायान् पुरुषो महान् विकारोऽस्य पुरुषस्य सर्वाणि भूतानि पूर्वं गायत्र्यात्मनोक्तान्येकः पादोऽस्य गायत्रीब्रह्मणस्त्रिपाद् अमृतं दिवि द्योतनवति स्वात्मन्यवस्थितमित्येवं मन्त्रं व्याख्याय तस्य गायत्र्यवच्छिन्नस्य ब्रह्मणो हृदयाकाश उपास्यत्वं च व्याख्याय तत उपास्त्यङ्गभूतं पञ्चद्वारपालोपासनं च व्याख्याय गायत्र्युपाधिकस्य हृद्युपास्यत्वेनोक्तस्यैव कौक्षेयज्योतिः- प्रतीकत्वेनोपासनम् 'अथ यदतः परो दिवः' इत्यादिना विधीयते । अत्र चाथशब्दो विद्यान्तरोपक्रमार्थ इत्याहुः । रश्मिः । सुषिरिश्छद्रम् । असेति हृदयस्य । कीर्तिः परोक्षख्यातिः । व्युष्टिरपरोक्षख्यातिः । एते इति पञ्च द्वारपाला ज्योतिश्चेत्येत इत्यर्थः । तेन प्राणरूपाणि भूतानि इत्यादिश्लोकसंदिग्धत्वात् प्रपञ्चयन्ति एतद्व्यतीत्यादिना । प्रसिद्ध इति पितृत्वमातृत्वे जीवानां प्रसिद्धे ईश्वरस्य तु पिताहमस्य जगतो मातेति न प्रसिद्धे । किंत्वित्यादि । पितृत्वमातृत्वयोः शरीरधर्मत्वादिति भावः । धातृपितामह समभिव्याहारात् । भूयस्य इति षड्धर्मा इतिसंख्यातात्पर्यात् । हृदयमिति 'गुहां प्रविष्टावात्मानौ हि तद्दर्शनात्' इतिसूत्रादौ । निविशत इति तथा चाश्रमवद्देहविशिष्टा जीवाः पाद इति तथेति भावः । ज्योतिरित्यादि 'योयमन्तर्हृदय आकाशः' इत्यत्राकाशशब्देनोक्तं यद्धार्दमाकाशं ज्योतिर्गर्भवेति योजना । ज्योतिश्च चकारेण पंचसुषयो जीवाः हृदयं हृदि अयमिति च्छान्दोग्य- व्युत्पत्तेस्ततो ज्योतिः षष्ठीविधा । अत्र योयमितिश्रुतौ जीववद्धार्दं 'द्वौ सुपर्णा भवतः' इति श्रुतेः परं तु ज्योतिर्न सुषिर हृदये आकाश इति हृदि अयं जीवस्तत्समीपे आकाश इति आत्मासन् काशः । वर्णलोपः । काशृ दीप्तौ आसमन्तात् काशत इति वा । सुषयस्तु न काशन्ते । आकाशशब्दस्य ज्योतिःसामानाधिकरण्ये श्रुतिं प्रमाणयन्ति स्म हृद्यन्तरिति । अत इत्यादि उपपादनात् । भाष्योक्त 'तावानस्य महिमा' इत्यादीरीत्या ऋग्वषयवाक्ययोरेकवाक्यत्वं निष्प्रत्यूहमिति । 'निःप्रत्यूहो महान् भोगः' इत्याचार्यप्रयोगात् । इत्यर्थ इति इदमेव वाक्यत्वं निःप्रत्यूहं निरुपसर्ग इति निष्कृष्टोऽर्थो बोध्यः । इति लिङ्गव्यत्ययेनान्वयः । अर्थपदाभावे तु सुष्ठन्वय इति ज्ञेयम् । स्वोक्तं व्याख्यानं दृढीकृतुं शांकरव्याख्यानमुपक्षिपन्ति यत्त्वित्यादि 'अङ्गं प्रती कोऽवयवः' इति कोशात् प्रतीकोवयवः । 381