भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 493, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 493

४०४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १० सू० ३० जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्त्वादिह तद्योगात् ॥ ३० ॥ अन्यद् बाधकद्वयमाशङ्कते । ननु यद्यपि ब्रह्मधर्मा भूयांसः प्रकरणे श्रूयन्ते । तद्वज्जीवधर्मा मुख्यप्राणधर्माश्च बाधकाः सन्ति । न वाचं विजिज्ञासीत वक्तारं विद्यादित्यादि । अत्र हि वागादिकरणाध्यक्षस्य जीवस्य विज्ञेयत्वमभिधीयते । अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थेति शरीरधारणं मुख्यप्राणधर्मः । मा मोहमापद्यथा, अहमेवैतत् पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामीति श्रवणात् । यो वै प्राणः सा प्रज्ञा या प्रज्ञा स प्राण इति जीवमुख्यप्राणवाच्यत्वे प्रज्ञाप्राणयोः सहवृत्तित्वादुपचारो युज्यते। उत्क्रान्तिश्च । नतु सर्वथा विलक्षणस्य ब्रह्मणः । तस्माज्जीवमुख्यप्राणलिङ्गयोर्विद्यमानत्वान्न ब्रह्मप्रकरणमिति चेन्न । भाष्यप्रकाशः। जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्त्वादिह तद्योगात् ॥ ३० ॥ व्याचक्षते अन्यदित्यादि । एतद्बाणमिति एतच्छरीरम् । तथाच वागादिक- रणाध्यक्षत्वस्य जीवलिङ्गस्य शरीरधारणस्य मुख्यप्राणलिङ्गस्य च ब्रह्मवाक्यत्वबाधकस्य विद्य- मानत्वाच्चेदं ब्रह्मवाक्यमित्यर्थः । ननु यद्येते लिङ्गे ब्रह्मवाक्यत्वबाधके तथा अमृतत्वादिकं ब्रह्मलिङ्गमप्येतद्बाधकमिति नात्र कस्यापि निर्णय इत्यतः स्वपक्षे गुणमाह यो वा इत्यादि । इति जीवमुख्यप्राणवाच्यत्व इति अस्मिन् प्रकरणेऽङ्गीकार्यत्वे । उत्क्रान्तिरिति । सहैवैतैः सर्वैरुत्क्रामतीत्यनेनोक्तोत्क्रान्तिः । सर्वथा विलक्षणस्येति । उत्क्रान्तिविरोधिन्द्या व्यापक- तया जीवात्, तथा चेतनतया च मुख्यप्राणाद् विरुद्धधर्मणः । तस्मादिति । उक्तलक्षणस्य महाबाधकस्य सत्त्वात् । तथाचैतेन बाधकेन ब्रह्मलिङ्गानामुपासनार्थत्वस्य शक्यवचनत्वाच्चेदं रश्मिः। जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्त्वादिह तद्योगात् ॥ ३० ॥ भाष्ये । 'मा मोहमापद्यथाः' इत्यादि वागादीन् प्रति प्राणवाक्यम् । पञ्चधेति प्राणापानादि- भेदेन । प्रकृते । अङ्गीत्यादि अत्र ल्प्रत्ययरहितः पाठः प्रतिभाति । इदं प्रकरणाधिकरणकाङ्गी- कार्यत्व इत्यर्थो वा । भाष्ये । उपचारो अमृतत्त्वादिब्रह्मलिङ्गानाम् । प्रकृते । एतैरित्यादि समीपतरवर्तिभिः प्राणैः । उत्क्रान्तिरित्युस युज्येत इति पूर्वेण समं संबन्धः । तथेति उत्क्रान्ति- विरोधिन्या व्यापकत्येत्यर्थः । महेति पूर्वपक्षांशे विपरीतलक्षणया स्वरेण वापाततो बाधकं तन्न तु परमार्थत इत्यर्थो बोध्यः । वीत्यादि 'मामेव विजानीहि' इति श्रुतावित्यर्थः । अर्थत्रयं ब्रह्मजीवमुख्य- प्राणरूपं घटादीनां प्रसक्त्यभावात् । प्रसक्तानां त्रयाणां च व्यवच्छेदायोगात् व्यवच्छेदाभावेन तथेत्यर्थः । ननु शिवस्य व्यवच्छेद्यत्वं ब्रह्मणो ब्राह्मणत्वात् विष्णोर्ब्रह्मगुणगणगणैर्गुणितां गणितानन्द- गुणकसत्तातिरिक्तादिति चेन्न । भेदकस्य तमसो मायिकत्वेनेतेर्धं प्रतीतेः । पूर्वत्राप्येवम् । 'एकत्व वाक्यम्' 'अर्थकत्वादेकं वाक्यं साकाङ्क्ष चेद्विभागे स्यात्' इति प्रोक्तलक्षणकं वाक्यं तस्य भेदः । आश्रितत्वा- दिति भाष्याग्रे अत एव 'त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी । त्वं जीर्णो दण्डेन वञ्चसि त्वं १. बञ्च संस्त्याने । 404