अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 494, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४०५ उपसात्रैविध्यात् । अयमर्थः । किमत्र बोध्यते । जीवमुख्यप्राणलिङ्गाद् ब्रह्म- धर्माणां जीवपरत्वं, त्रयाणामपि स्वतन्त्रत्वं वा, लिङ्गद्वयस्यापि ब्रह्मधर्मत्वमुच्यता- मिति वा । आद्यः पूर्वमेव परिहृतः । न हि ब्रह्मधर्मा अन्यपरत्वेन परिणेतुं शक्या इति । द्वितीये दूषणमाह । उपासात्रैविध्यात् । तथा सत्युपासनं त्रिविधं स्यात् । तद्वाक्यभेदप्रसङ्गान्न युक्तम् । तृतीये तूपपत्तिरुच्यते । जीवधर्मा ब्रह्मणि न विरुद्ध्यन्ते । आश्रितत्वात् । जीवस्यापि ब्रह्माधारत्वात् तद्धर्मा अपि भगवदाश्रिता एव । इहेत्युभयत्र संबन्धो ब्रह्मवादे । मुख्यप्राणे तु तयोगात् । भाष्यप्रकाशः। ब्रह्मप्रकरणमिति पूर्वपक्षस्य इत्यर्थः । समाधानांशं व्याकुर्वन्ति अयमर्थ इत्यादि । उच्यतामिति । उपपाद्यताम् । पूर्वमेव परिहृत इति । न वक्तुरिति सूत्रे ब्रह्मधर्मबाहु- ल्यप्रतिपादनेन बहूनामनुग्रहस्य न्याय्यत्वालम्बनात् परिहृतः । परिहाराकारमाहुः न हीत्यादि । अत्राशक्यत्वं बहुषु लक्षणाया आपत्त्या ज्ञेयम् । द्वितीय इति लक्षणादोषा- दित्यात् त्रयाणां स्वातन्त्र्येण प्रतिपाद्यत्वाङ्गीकार इत्यर्थः । वाक्यभेदप्रसङ्गादिति । विजा- नीहीत्यस्यावर्तनेन, मामिति पदसार्थक्यकल्पनेनैवकारार्थविरोधेन च वाक्यभेदप्रसङ्गात् । तृतीय इति ब्रह्मधर्मत्वोपपादनचोदनापक्षे । ब्रह्माधारत्वादिति । 'अस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत्' इति श्रुत्या जीवस्यावयवत्वबोधनेन तस्य ब्रह्माधारत्वात् । नच वैपरीत्यं शङ्क्यम् । संयोगादुत्पत्तिरिति पक्षे तथात्वे, विभागादुत्पत्तिरिति पक्षे तदभावादिति । इहे- त्युभयत्र संबन्ध इति । इहाऽऽश्रितत्त्वादिह तयोगादित्येवं संबन्धः । ब्रह्मवादपदं माया- रश्मिः। जातो भवसि विश्वतोमुखः' इत्यादिश्रुतिरित्याकाशवाणीपाठः । वबसि गच्छसि । तस्येत्यादि शरीरे करादय इति प्रतीत्या करादीनां शरीराधारत्वंवत् तस्य जीवस्य ब्रह्माधारत्वात् । वैपरीत्यं तन्त्वधिकरणकपटनिरूपितेत्यादिविद्वन्मण्डने कपालेषु घट इति प्रतीत्यावयविभूतब्रह्मणोवयवभूत- जीवस्याधारत्वं शङ्क्यमित्यर्थः । संयोगादुत्पत्तिरित्यादि ईश्वरचिकीर्षावशात्परमाणुषु जायमानया क्रियया परमाणुद्वयसंयोगादुत्पत्तिः। तथात्वे अवयविनोवयवस्याधारत्वे। विभागाद्येत्यादि अयमर्थः। सिद्धान्ते प्रथमस्यान्तिमस्य च कार्यस्य विभागादुत्पत्तिः अवान्तरस्य तु यथासंभवं संयोगविभागाभ्यां सा 'यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति एवमेवास्मादात्मनः' इति पञ्चमीश्रवणात् । परमाणु- कारणवादस्य तर्कपादे दूषणीयत्वात् । इदं यथा तथा सृष्टिभेदवादे व्युत्पादितम् । तदभावात् अवयवानामवयव्याधारत्वाभावात् । संबन्ध इति देहलीदीपकन्यायेनेति भावः । इहेत्यस्य सर्वात्मभाववति जीवे इह ब्रह्मणि आश्रितत्वात् तयोगादित्येवमर्थसमर्थनार्थम् । न चैवं स्वे महिम्नि ह्याश्रितत्वव्याख्याने । 'मन्त्रोपासनवैदिकतान्त्रिकदीक्षार्चनादिविधिभिर्यः। अस्पृष्टो रमते निजभक्तेषु स मेस्तु सर्वस्वम्' ॥ इति ह्युपासाऽविषयत्वं विरुद्धमिति वाच्यं मन्त्राणामुपासनेति व्याख्यानात् । अत एव मुक्ति- स्कन्धे उपासना उप समीपे स्थित्वा यथायोग्यकरणमिति सुबोधिनी । भाष्यप्रकाशसमाप्तौ चोपास- नाघटितसाधनपरंपरा । मायावादव्यवच्छेदसूचकब्रह्मवादपदकथनतात्पर्यमाहुः ब्रह्मवादेत्यादिना । 405