अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 496, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४०७ सहोत्क्रमस्तु क्रियाज्ञानशक्त्योर्भगवदीययोर्देहे सहैव स्थानं सहोत्क्रमण- मिति भगवदधीनत्वं सर्वस्यापि बोध्यते । ननु प्राणस्तथानुगमादिति प्राण- शब्देन ब्रह्मैव प्रतिपादितं तत्कथं धर्मयोरुत्क्रमणमिति चेत् । अत्र धर्मधर्मिणो- रेकत्वपृथक्त्वनिर्देशयोर्विद्यमानत्वात् । प्राणो वा अहमस्मिन् प्रज्ञात्मेति । अत्र भाष्यप्रकाशः । विरुद्धतया तस्य तु तथात्वं न युज्यत इति तस्य का गतिरित्यत आहुः सहोत्क्रम- स्त्विति । तथाच व्यापकत्वादसंभवन्नपि शक्तिशक्तिमदोरभेदाद्धस्तोत्क्षेपणवत् सोऽपि भग- वद्धर्म एवेत्यर्थः । एवं बोधनस्य फलमाहुः देह इत्यादि । अत्र पूर्वविरोधमाशङ्कते नन्वित्या- दि । तत् कथमिति पूर्वोक्तविरोधेन धर्मधर्मिभावस्य वक्तुमशक्यत्वात् कथम् । एत- त्समाधानाय हेतुं गृह्णन्ति अत्र धर्मेत्यादि । तथाच यदि पृथक्त्वनिर्देशो न स्यादुत्क्रमणं विरुध्येत । अत्र तूभयोः सत्त्वान्न पूर्वापरविरोध इत्यर्थः । उक्तं व्याख्यातुमुपपादयन्ति प्राण इत्यादि । अत्र विषयवाक्ये पाठभेदो देशभेदाद् बोध्यः । यथा बृहदारण्यकोपनिषदि तैलङ्गद्रविडपाठभेदात् । यथा चैतद्वाणमवष्टभ्येति प्रश्नोपनिषद्वाक्ये ये त्विमं शरीरं परिगृह्येति पठन्तीति पाठान्तरं शंकराचार्यैरुपन्यस्तम् । तथाऽत्रैवोऽहमित्यत्रादुदुहदिति पठितम् । तद्वत् शंकरानन्दकृतटीकायामप्येवमेव पाठ इति । अत्र क्रियाशक्त्यनुग्राहकः प्राण इति ज्ञानशक्त्यनुग्राहकश्च चेतन इति तदुभयवाचकयोः प्राणप्रज्ञात्मशब्दयोरिदेमा सामानाधिकरण्यात् तदुभयवानेको निर्दिष्टः । ततस्तं मामायुरमृतमित्युपास्वेत्यनेन तस्योपासनं विधाय तस्य फलं चोक्त्वा तदनु तद्वैक आहुरित्यारभ्यास्तित्वेव प्राणानां निःश्रेयसमित्यन्तेन क्रियाशक्तिप्रशंसा । जीवति वागपेत इत्यारभ्य प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापय- तीत्यन्तेन ज्ञानशक्तिप्रशंसा । ततस्तस्योपासनं विधाय प्राणे सर्वाप्तिमूक्त्वा यो वै प्राणः रश्मिः । तथात्वमिति ब्रह्मधर्मत्वम् । हस्तेत्यादि हस्तोत्क्षेपणस्य पुरुषधर्मत्ववदित्यर्थः । तथा च 'अविभक्तं च भूतेषु विभक्तमिव च स्थितम्' इति गीतायां भगवदीययोरित्यर्थः । ननु प्राण इत्यादिसूत्रे प्रज्ञात्मेति पठ्यतेत्र तु प्रज्ञानानेति पाठभेदेऽपि किंचिदाहुः अत्र विषयेत्यादिना पाठभेदस्तु स्वयमग्रे वक्तव्यः । तैलङ्गेत्यादि अयं द्रष्टव्यः क्वचित्स्थले । इति पठितमिति शंकराचार्यैरित्यर्थः । तथा च तद्भाष्यम् । ये त्विमं शरीरं परिगृह्येति पठन्ति तेषामिमं जीवमिन्द्रियग्रामं वा परिगृह्य शरीरमुत्थाप- यन्तीति व्याख्येयमिति । तथा अथ यथास्यै प्रज्ञायै सर्वाणि भूतान्येकं भवन्ति तद्व्याख्यास्याम इत्युपक्रम्य वागेवास्या एकमङ्गमदूदुहत् तस्यै नाम परस्तात् प्रतिविहिता भूतमात्रा प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति इत्यादि प्रज्ञाधर्म इति । इत आरभ्य प्राणगुणविशिष्टोपासना प्राणोहमस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्वेति श्रुत्यर्थमाहुः अत्र क्रियेत्यादिना । उपासनाद्वय- प्रतिपादकश्रुतेर्वस्तु ह्यधिकरणारम्भ उक्तः । तदनन्विवादिभाष्यं विवृण्वन्ति स्म तदनन्वित्यादिना । प्राण पवेति यत्र खलु प्राण एवेत्यादितृतीयोपासनाप्रज्ञागुणविशिष्टस्य । तस्योपेति पञ्चमावेदनेनेत्येवमुपासीतेति श्रुतोत्पत्तिस्तस्य देहायुस्थानकमित्यर्थः । पुनर्ज्ञानशक्तेरुत्कर्षं वक्तुमिति ५२ ब्र० सू० २८ 407