भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 497, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 497

क्रियाज्ञानशक्तिमान् निर्दिष्टः । तदन्वेकैकस्य धर्मस्य प्रशंसा, यो वै प्राणः सा प्रज्ञा, या प्रज्ञा स प्राण इत्युपसंहारान्तम् । पुनस्तयोरेवोत्क्रमणप्रवेशाभ्यां सह ह्येवास्मिन् शरीरे वसतः सहोत्कामत इत्युपक्रम्य सुषुप्तिमूर्च्छामरणेषु प्राणा- धीनत्वं सर्वेषामिन्द्रियाणामुक्त्वा आसव्यव्यावृत्त्यर्थं प्रज्ञयैक्यं प्रतिपाद्योपसंह- रति । पुनुर्ज्ञानशक्तेरुत्कर्षं वक्तुम्, अथ खलु यथा प्रज्ञायामित्यारभ्य, न हि प्रज्ञापे- तोऽर्थः कश्चन सिद्ध्येदित्यन्तेन ज्ञानशक्त्युत्कर्षं प्रतिपाद्य धर्ममात्रत्वनिराकरणाय ज्ञानशक्तिमन्तं भगवन्तं निर्दिशति, न हि प्रज्ञातव्यमित्यारभ्य, मन्तारं विद्यादित्यन्तेन । तदनु ज्ञानक्रियाशक्त्योर्विषयभूतभूतमात्रारूपजगतो भगव- भाष्यप्रकाशः । सा प्रज्ञा, या वा प्रज्ञा स प्राण इत्युपसंहृतेत्येतदन्ता उभयप्रशंसा । तदग्रिमसंदर्भ उत्क्रमण- प्रवेशाभ्यां पुनस्तयोरेव प्रशंसा । सा च तस्मिन् पाठे, सह ह्येवास्मिन्नित्युपक्रम्य सुषुप्त्या- दिषु सर्वेन्द्रियाणां प्राणाधीनत्वमुक्त्वा ततः प्राणस्य प्रज्ञयैक्यं प्रतिपाद्योपसंहृता । प्रसिद्ध- पाठे तु, तस्मैव दृष्टिरेतद्विज्ञानमित्युपक्रमः । सह ह्येवास्मिन्नित्युपसंहारः । वाक्यार्थस्तू- भयत्राप्येक एव । तस्य प्रयोजनं तु क्रियाशक्त्यपेक्षया ज्ञानशक्तेरुत्कर्षप्रतिपादनमतस्तदुत्कर्षं वक्तुमेतावान् संदर्भः । ततोऽथ खलु प्रज्ञायामित्यादिनोत्कर्षप्रतिपादनम् । तत्रापि पाठ- भेदः । प्रसिद्धपाठे, अथ यथास्यै प्रज्ञायै, इत्युपक्रमान्न हि प्रज्ञापेता धीः काचन सिद्धयेदि- त्युपसंहारात् । अर्थस्त्वेक एव । तदग्रे तु पाठोऽपि समानः । तदर्थस्तु, धर्ममात्रत्वनिरा- करणायेत्यादिना प्रतिपाद्यते । तत्र ज्ञानशक्तिमन्निर्देशो जीवसाधारण इति जीवं वारयितुं, ता वा एता दशैव भूतमात्रा इत्यारभ्य, न ह्यन्यतरतो रूपं किंचन सिद्ध्येदित्यन्तेन क्रिया- ज्ञानशक्त्योः परस्परसापेक्षतया स्वविषयभूतरूपात्मकजगत्साधकत्वं प्रतिपाद्य, ततो, नो एत- रश्मिः । भाष्यं विवृण्वन्ति स्म तस्य प्रयोजनमित्यादि । एक एवेत्यादि । अथ बुद्धिप्राणयोः सहस्थितो- त्क्रान्तिकथनानन्तरं प्रज्ञायै प्रज्ञायाः संबन्धीनि सर्वाणि भूतानि एकीभवन्ति भगवता तथा व्याख्या- स्यामः । तदेकीभावमेवाह वागेवास्या इति । अस्या भगवद्रूपायाः प्रज्ञायाः एकमङ्गमंशं वाक् पूरया- मास । तस्मै नाम तस्याः भगवद्रूपायाः प्रज्ञाया नाम इत्यव्ययं प्रकाशार्थकं परस्तात् द्वितीयमंशं चक्षुरादिना प्रतिविहिता विषयीकृता रूपादिरूपा भूतमात्राः पूरयांबभूवुरित्यर्थः । नामरूपात्मक- जगदुक्तम् । तत्र क्रीडामाह प्रज्ञयेत्यादि । तया वाचं समारुह्यानुप्रविश्य तया करणभूतया सर्वाणि नामानि वक्तव्यत्वेनाप्नोति चक्षुषा सर्वाणि रूपाणि पश्यतीत्येवंरूपोऽर्थ इत्यर्थः । श्रुतयस्तु शंकरानन्द- भाष्योपन्यास उक्ताः । प्रकृतमनुसरामः । ता वा एता इति ता वा एता दशैव भूतमात्राः अधिप्रज्ञं दश प्रज्ञामात्राः अधिभूतं यदि भूतमात्रा न स्युः न प्रज्ञामात्राः स्युः । यद्वा प्रज्ञामात्रा न स्युर्न भूतमात्राः स्युर्न ह्यन्यतरतो रूपं किंचन सिद्ध्येदिति । प्रतिपाद्येति । एतावता त्रेधोपास्यमुक्तमवीमांसायाम् । भुतर्वस्तु अधिप्रज्ञं प्रज्ञामात्राभिरित्यर्थः । एवं भूतमात्रासु दश प्रज्ञामात्रा इत्यर्थः । एवमुक्तयुग्मयोः