अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 498, कुल 2600 में से
संदर्भ में पढ़ेंवमेवं प्रतिपादयन्, 'स एष प्रज्ञात्माऽऽनन्दोऽजरोऽमृतः' इत्युपसंहरति ब्रह्मधर्मैः। अतः क्रियाज्ञानविषयरूपो भगवानवेति प्रतिपाद्य, न तावन्मात्रं ततोऽप्यधिक इत्येकोपासनैव विहिता। तस्माज्जडजीवरूपत्वात् सर्वात्मकं ब्रह्मैवेति महावा- क्यार्थः सिद्धः ॥ ३० ॥ १० ॥ इति प्रथमाध्याये प्रथमपादे दशममनुगमाधिकरणम् ॥ १० ॥ इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते ब्रह्मसूत्राणु- भाष्ये प्रथमस्याध्यायस्य प्रथमः पादः ॥ १ ॥ १ ॥ भाष्यप्रकाशः। ज्ञानेति तासां प्रज्ञायाः सकाशादभेदं प्रतिज्ञायोपपादयति । 'तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः स एष इति । तथाच, यद् यज्जनकं तत् तद्धर्मकं, यद् यद्धर्मकं तत् तदविनाभूतमिति व्याप्त्या भूतमात्राप्रज्ञामात्रात्मकस्य सर्वस्य जगतः प्रज्ञाऽविनाभावेन तदात्मकत्वे सिद्धे तस्या अपि स्वरूपं निर्णेतुम्, आनन्दोऽजरोऽमृत इति ब्रह्मधर्मैरुपसंहरति । अतोऽत्र प्रज्ञात्मकजीवस्वरू- पादधिकस्य ब्रह्मणः सर्वात्मकत्वसर्वाधिकत्वज्ञानार्थमैकैवोपासना विहिता । तस्मात् साध्व- साधुकारकतया प्राप्तस्य वैषम्यादिदोषस्यापि परिहाराद् ब्रह्म जडजीवात्मकतया सर्वोपादानत्वेन सर्वात्मकमित्येष महावाक्यार्थः सिद्ध इत्यर्थः । तेनेदमधिकरणं पूर्वोक्तस्य सर्वस्य निगमना- र्थमिति बोधितम् । तथाहि । पूर्वे शास्त्रारम्भे जिज्ञासोक्ता । सा सर्वदा कर्तव्या । अन्यथा अरुन्मुखत्यागादिष्विविनाशः स्यादिति विषयवाक्यारम्भे बोधितम् । ततो जन्मादिसूत्रसिद्धं सर्वकर्तृत्वं समन्वयसूत्रसिद्धं सर्वोपादानत्वं चोपपादितम् । तत उपसंहारे, ईक्षत्यानन्दमया- धिकरणसिद्धोऽर्थः प्रज्ञात्मानन्दपदाभ्यां संगृह्य बोधितः । ब्रह्मधर्मोपदेशेन, लोकपालत्वादि- बोधनेन, प्राणशब्दोक्त्या, स म आत्मेत्युपसंहारेण च यथायथं तद्धर्मोपदेशाधिकरणार्थः रश्मिः । सापेक्षत्वं प्रपञ्चयन्ति यदीत्यादि । ग्राह्यव्यतिरेकेण ग्राहकं न सिद्ध्यति ग्राहकव्यतिरेकेण ग्राह्यं न सिद्ध्यतीत्यर्थः । ग्राह्यग्राहकयोरभेदमाह नो इति । प्रज्ञामांत्राभूतमात्रारूपमित्यर्थः । तासां भूतमात्राणाम् । तद्यथेत्यादि रयस्य स्यन्दनस्यारेषु मध्यवर्तिशलाकासु चक्रोपान्ते नेमिरर्पिता नाभौ चक्रपिण्डिकायामरा अर्पिताः यथा तथा भूतमात्राः शब्दादयः प्रज्ञामात्रास्विन्द्रियेष्वर्पिताः प्रज्ञा- मात्राश्च प्राणे ब्रह्मण्यर्पिताः । प्राणस्य ब्रह्मत्वमाह स एष इति । तथा चानेन दृष्टान्तेन नानात्वं नेत्यर्थः । अतः क्रियेत्यादिभाष्यं व्याकुर्वन्ति स्म अतोत्रेत्यादिना । महावाक्येत्यादि अवान्तरवाक्यार्थसमूहो महावाक्यार्थः । तथा च जडविशिष्टजीवेतिव्याप्तिवारणायेदननुगमाधिकरण- मिति भावः । जीव प्राणधारणे इति धातुपाठात् । प्राणरूपजडाधारो जीवः । औपाधिकब्रह्मणोऽभिन्नः इति । अन्यदपि प्रयोजनमाहुः तेनेत्यादि । विषयेत्यादि अरुन्मुखान् यतीन् शालावृकेभ्यः प्रायच्छमित्यनेन । श्रुत्यर्थस्तु न रुत् रुक् मुखे येषां तान् । शालावृका अरण्यश्वानः । तथा चावेदान्तमुखानां निन्दाश्रावणेन सर्वदा वेदान्तमुखत्वे प्राप्ते ब्रह्मजिज्ञासापि सर्वदा प्राप्तेति भावः । उपपादितमिति ता वा एता दशेत्यादिना निरूपितम् । तद्धर्मेत्यादि तद्धर्मोपदेशाधि- 409