अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 501, कुल 2600 में से
संदर्भ में पढ़ें४१२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १० सू० ३०
भाष्यप्रकाशः । सिद्धान्तितम् । तथा सति त्रितयपक्षस्य प्रागेव निरस्तत्वाद् विध्यात्मस्याङ्गीकारे विरोधोक्तेर्वै- यर्थ्यप्रसङ्गाच्च प्रकारत्रयविशिष्टैकोपासनाविधिरेव सिद्ध्यतीति वाक्यभेदस्फुटत्वं कथमित्ये- वालोचनीयं, न तु तदभावसमर्थनमालोचनीयम् । किंच । भाष्यकृतापि ब्रह्म एवैतदुपा- धिद्वयधर्मेण स्वधर्मेण चैकमुपासनं त्रिविधं विवक्षितमिति तन्मतसिद्धमुक्तमतो व्याख्येय- विरोधोऽपीति । नन्वेवमस्य प्राचीनपक्षस्य निर्दुष्टत्वे सिद्धान्तिना कुतोऽयं नादृत आपत्त्या च कुतो व्याख्यातमिति चेन्न । त्रैविध्यादित्यस्य ल्यब्लोपपञ्चमीत्वेनापचेरार्थिकतयाऽध्याहार्यत्वाभावेन व्याख्याने दोषाभावात् । सिद्धान्ते तेषां धर्माणां जीवीयत्वादिनैवा मानस्यैव भ्रान्तित्वबोध- नेन ब्रह्मधर्मत्वस्यैव निर्णीततया प्राचीनप्रतिपन्नत्रैविध्यसाम्याभावादिति बुध्यस्व । माध्वास्तु, ऐतरेयोक्तं विश्वामित्रेन्द्रसंवादं विषयवाक्यत्वेनोदाहरन्ति ॥ ३० ॥ १० ॥ इति दशममनुगमाधिकरणम् ॥ १० ॥ इति श्रीमद्वल्लभाचार्यचरणनलचन्द्रकिरणनिवारितहृदयध्वान्तेन पुरुषोत्तमेन कृते भाष्यप्रकाशे प्रथमाध्यायस्य प्रथमः पादः ॥ १ ॥ १ ॥ रश्मिः । जीवं प्राणं चेत्युभयम् । यदुक्तम् । 'युक्तिभिरतिशिथिलाभिः समादधानो दृढान् दोषान् । वाचस्पतिरपि भाष्ये व्याख्याव्याजेन दूषणं म्रुते' ॥ इति । तत्स्फुटं दर्शयन्ति किं चेत्यादि । तन्मतेत्यादि अणुभाष्ये द्वितीयव्याख्यानेऽथ चेत्यादिना वृत्तिकृन्मतानुसारेण व्याख्यातमिति रामानुजमतसिद्धमुक्तम् । अर्थाद्वृत्तिकृन्मतानुसारेण व्याख्या- नादिदमपि तदेवेति भावः । विरोध इति । यद्यपि वृत्तिकृन्मतानुसारेणात्र नोपासात्रैविध्या- दाश्रितत्वादिह तद्योगादित्यस्यामन्योऽर्थ इत्यादिना वृत्तिकृन्मतेन व्याख्यानान्तरमचीकॢपन् शंकराचा- र्यास्तट्टीकाकारा इदमेकदेशिमतमप्रामाणिकमित्युक्त्वा नात्रोपासात्रयविशिष्टब्रह्मविधिः । आरुण्याद्यनेक- गुणविशिष्टाम्रासक्रयववत् सिद्धस्य ब्रह्मणो विध्ययोगात् वाक्यभेदप्रसङ्गाच्च । न च नानाधर्मविशिष्ट- मेकमुपासनं विधीयते । एवंविधवाक्यस्यात्राश्रवणात् । नापि मामायुरमृतमित्युपास्वेत्यत्र मामिति जीवः, आयुरिति प्राणः, अमृतमिति ब्रह्म, इति स्वस्वधर्मविशिष्टमुपासनं विधीयते इति शक्यम् । प्रमाश्रुतेः । प्राणो वामृतमिति प्राणस्यैवामृतत्वकथनाचेति प्रथमव्याख्यानमेवमश्रुतमिति दूषितम् । तथापि द्वितीयस्य पूर्वपेक्षयाऽवसरादित्याङ्गाष्ये चास्य पक्षस्य नैर्बल्यासूचनाच्च टीकाकारोक्तमेवा- संगतमित्याशयः । ल्यब्लोपेत्यादि तथा चोपसात्रैविध्यादित्यस्योपासात्रैविध्यमापद्येत्यर्थः । यथा प्रासादात्प्रेक्षते इत्यत्र प्रासादमध्यारुह्येत्यर्थः । एवं च यदि ब्रह्मजीवमुख्यप्राणानां त्रयाणामपि सत्वमत्तं तत्रोच्येत तदोपासात्रैविध्यमापद्य वाक्यभेदो दूषणत्वेनोच्येत इत्यर्थः । ननु तथापि वाक्यभेदप्रसङ्गस्त्वस्याहार्यत्वमेवेति दोषतादवस्थ्यं तत्राहुः सिद्धान्त इत्यादिना । प्राचीन- प्रतिपन्नेति तद्व्याख्याने समन्वयस्य अध्याहार्यस्य जीवप्राणयोः सत्त्वेनातिव्याप्तिरतोयमर्थ इति भावः । उदाहरन्तीति ते देवाः प्राणयन्तः स एषोऽसुः स एष प्राणः प्राणकृत्त्व इत्येव विद्यातद्वं
१. यत्र प्रांगहस्तः 'तस्मिन् प्राणः पञ्चधा संनिवेशन' इति भुजङ्गपाद । 412