भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 502, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 502

भाष्यप्रकाश-रश्मि-परिवृंहितम् । रश्मिः । प्राणोधितिष्ठतीत्याद्यनुगमादत्रापि प्राणो विष्णुरेव । 'विष्णुमेवानयन् देवा विष्णुभूतिमुपासते । स एव सर्व वेदोक्तसारधो देह उच्यते' ॥ इति स्कान्दे । इतिश्रीमदिति । अणुभाष्येति अणुभ्यो द्वा सुपर्णेति श्रुत्युक्तेभ्यो भाष्यमिति चतुर्थीसमासः तस्य प्रकाश इत्यर्थः । 'इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञमिति तद्विदः ॥ क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् । स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् । ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितम्' ॥ इतिगीतात्रयोदशाध्यायवाक्येभ्यः ॥ ३० ॥ १० ॥ इति दशमाधिकरणम् ॥ १० ॥ इति श्रीविठ्ठलेश्वरैश्वर्यानिरस्तसमस्तान्तरायेण श्रीगोविन्दरायपौत्रेण संपूर्णवेज्ञा विट्ठलरायभ्रात्रीयगोकुलोत्सवात्मजगोपेश्वरेण कृते भाष्यप्रकाशरश्मौ प्रथमाध्यायस्य प्रथमः पादः संपूर्णतामगमत् । १. स एव प्राण इत्युक्तः । २. भाष्यम् । 413